उपेयुषीं बिभ्रतमन्तकद्युतिं
वधाददूरे पतितस्य दंष्ट्रिणः ।
पुरः समावेशितसत्पशुं द्विजैः
पतिं पशूनामिव हूतमध्वरे ॥

अन्वयः AI वधात् अदूर्रे पतितस्य दंष्ट्रिणः उपेयुषीम् अन्तकद्युतिं बिभ्रतं, द्विजैः अध्वरे पुरः समावेशितसत्पशुं हूतं पशूनां पतिम् इव (तं ददृशुः)।
English Summary AI They saw him bearing the lustre of Death, which had approached the tusked boar now fallen not far from its demise. He was like Shiva (Pashupati, Lord of beings), invoked in a sacrifice by priests, before whom a choice sacrificial animal has been placed.
सारांश AI यमराज के समान तेजस्वी अर्जुन मृत वराह के समीप ऐसे सुशोभित थे मानो यज्ञ में पशु बलि के लिए स्वयं पशुपति उपस्थित हुए हों।
घण्टापथव्याख्या (मल्लिनाथः) उपेयुषीमिति ॥ पुनश्च । अदूरे समीपे पतितस्य दंष्ट्रिणो वराहस्य । ब्रीह्यादित्वादिनिप्रत्ययः । बधाद्धेतोरुपेयुषीं प्राप्तामन्तकस्येव यमस्येव द्युतिस्तां विभ्रतं धारयन्तम् । तथा च द्विजैर्ब्राह्मणैरध्वरे यज्ञे । यज्ञः सवोऽध्वरो यागः इत्यमरः (अमरकोशः २.७.१५ ) । हूतमाहूतं पुरोऽग्रे समावेशितः स्थापितः सत्पशुर्यज्ञीयपशुर्यस्य तं पशूनां पतिं रुद्रमिव स्थितम् ॥
पदच्छेदः AI
उपेयुषीम्उपेयुषी (उप√इ+क्वसु, २.१) which had approached
बिभ्रतम्बिभ्रत् (√भृ+शतृ, २.१) bearing
अन्तकद्युतिम्अन्तकद्युति (२.१) the lustre of Death
वधात्वध (५.१) from death
अदूरेअदूर (७.१) not far
पतितस्यपतित (√पत्+क्त, ६.१) of the fallen
दंष्ट्रिणःदंष्ट्रिन् (६.१) of the tusked one (boar)
पुरःपुरस् before
समावेशितसत्पशुम्समावेशित (सम्+आ√विश्+णिच्+क्त)सत्पशु (२.१) for whom a choice animal has been placed
द्विजैःद्विज (३.३) by the priests
पतिम्पति (२.१) the Lord
पशूनाम्पशु (६.३) of beings
इवइव like
हूतम्हूत (√ह्वे+क्त, २.१) invoked
अध्वरेअध्वर (७.१) in a sacrifice
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
पे यु षीं बि भ्र न्त द्यु तिं
धा दू रे ति स्य दं ष्ट्रि णः
पु रः मा वे शि त्प शुं द्वि जैः
तिं शू ना मि हू ध्व रे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.