Loading data... On slow networks this could take a few minutes.
100%

परोऽवजानाति यदज्ञताजड-
स्तदुन्नतानां न विहन्ति धीरताम् ।
समानवीर्यान्वयपौरुषेषु यः
करोत्यतिक्रान्तिमसौ तिरस्क्रिया ॥

अन्वयः AI अज्ञता-जडः परः यत् अवजानाति, तत् उन्नतानाम् धीरताम् न विहन्ति । यः समान-वीर्य-अन्वय-पौरुषेषु अतिक्रान्तिम् करोति, असौ तिरस्क्रिया (भवति) ।
English Summary AI "That an adversary, dull with ignorance, shows disrespect does not undermine the fortitude of the noble. Real insult is when one transgresses against those who are equal in valor, lineage, and manliness."
सारांश AI अज्ञानी द्वारा किया गया अनादर धैर्यवानों को विचलित नहीं करता। तिरस्कार वही है जो समान शक्ति, कुल और पुरुषार्थ वाले व्यक्तियों के मध्य होता है।
घण्टापथव्याख्या (मल्लिनाथः) पर इति ॥ अज्ञताजडो मोहान्धः परोऽवजानाति यत्तदवज्ञानमुन्नतानां महतां धीरतां निर्विकारचित्तत्वं न विहन्ति । विकारं जनयतीत्यर्थः । क्रोष्टेव सिंहस्येति भावः । किं तु समानानि तुल्यानि वीर्यान्वयपौरुषाणि शक्तिकुलविक्रमा येषां तेषु मध्ये । निर्धारणे सप्तमी । यः । कश्चिदित्यर्थः । अतिक्रान्तिमतिक्रमं करोति चेदसौ सदृशजनातिक्रमस्तिरस्क्रिया तिरस्कारः । यथा सिंहे सिंहस्येति भावः ॥ तर्हि नीचे कीदृशी वृत्तिरित्याशङ्क्य सोपपत्तिकमाह
पदच्छेदः AI
परःपर (१.१) an adversary
अवजानातिअवजानाति (अव√ज्ञा कर्तरि लट् (परस्मै.) प्र.पु. एक.) shows disrespect
यत्यद् (१.१) that
अज्ञताजडःअज्ञताजड (१.१) dull with ignorance
तत्तद् (१.१) that
उन्नतानाम्उन्नत (उद्√नम्+क्त, ६.३) of the noble
not
विहन्तिविहन्ति (वि√हन् कर्तरि लट् (परस्मै.) प्र.पु. एक.) undermines
धीरताम्धीरता (२.१) the fortitude
समानवीर्यान्वयपौरुषेषुसमानवीर्यअन्वयपौरुष (७.३) against those equal in valor, lineage, and manliness
यःयद् (१.१) who
करोतिकरोति (√कृ कर्तरि लट् (परस्मै.) प्र.पु. एक.) transgresses
अतिक्रान्तिम्क्रान्ति (अति√क्रान्ति, २.१) transgression
असौअदस् (१.१) that
तिरस्क्रियातिरस्क्रिया (१.१) is insult
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
रो ऽव जा ना ति ज्ञ ता
स्त दु न्न ता नां वि न्ति धी ताम्
मा वी र्या न्व पौ रु षे षु यः
रो त्य ति क्रा न्ति सौ ति स्क्रि या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.