अभूतमासज्य विरुद्धमीहितं
बलादलभ्यं तव लिप्सते नृपः ।
विजानतोऽपि ह्यनयस्य रौद्रतां
भवत्यपाये परिमोहिनी मतिः ॥

अन्वयः AI नृपः अभूतम् विरुद्धम् ईहितम् आसज्य बलात् अलभ्यम् तव (धनम्) लिप्सते । हि अनयस्य रौद्रताम् विजानतः अपि अपाये मतिः परिमोहिनी भवति ।
English Summary AI "Your king, engaging in an unprecedented and improper action, desires to obtain by force what is unobtainable from you. Indeed, even for one who knows the terribleness of injustice, the mind becomes deluded when destruction is near."
सारांश AI तुम्हारा राजा असंभव और अनुचित वस्तु को बलपूर्वक पाने की इच्छा कर रहा है। नीति के दुष्परिणामों को जानते हुए भी विनाश के समय मनुष्य की बुद्धि भ्रमित हो जाती है।
घण्टापथव्याख्या (मल्लिनाथः) अभूतमिति ॥ तव नृपोऽभूतमनृतमासज्य । मिथ्याभियुज्येत्यर्थः । युक्ते क्ष्मादावृते भूतम् इत्यमरः (अमरकोशः ३.३.८५ ) ।अलभ्यं लब्धुमशक्यं विरुद्धं विपरीतफलकमीहितं मनोरथं बलाल्लिप्सते लब्धुमिच्छति। न चैतच्चित्रमित्याह-हि यस्मादनयस्य दुर्नयस्य रौद्रतां भयंकरत्वं विजानतोऽपि पुरुषस्य मतिर्बुद्धिरपाये विनाशकाले परिमोहिनी भवति । परिमुह्यतीति परिमोहिनी । संपृचादिसूत्रेण ताच्छील्ये घिनुण्प्रत्ययः । प्रायेण विनाशकाले विपरीतबुद्धिर्भवतीति भावः ॥ अथ सर्वथा लभ्यस्ते शरस्तर्हि किमनेन । सुष्ठु विश्रब्धं याच्यतां शरोऽन्यद्वेत्याह
पदच्छेदः AI
अभूतम्अभूत (२.१) an unprecedented
आसज्यआसज्य (आ√सञ्ज्+ल्यप्) engaging in
विरुद्धम्विरुद्ध (२.१) improper
ईहितम्ईहित (√ईह्+क्त, २.१) action
बलात्बल (५.१) by force
अलभ्यम्अलभ्य (२.१) what is unobtainable
तवयुष्मद् (६.१) from you
लिप्सतेलिप्सते (√लभ् +सन् कर्तरि लट् (आत्मने.) प्र.पु. एक.) desires to obtain
नृपःनृप (१.१) your king
विजानतःविजानत् (वि√ज्ञा+शतृ, ६.१) of one who knows
अपिअपि even
हिहि indeed
अनयस्यअनय (६.१) of injustice
रौद्रताम्रौद्रता (२.१) the terribleness
भवतिभवति (√भू कर्तरि लट् (परस्मै.) प्र.पु. एक.) becomes
अपायेअपाय (७.१) when destruction is near
परिमोहिनीपरिमोहिनी (१.१) deluded
मतिःमति (१.१) the mind
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
भू मा ज्य वि रु द्ध मी हि तं
ला भ्यं लि प्स ते नृ पः
वि जा तो ऽपि ह्य स्य रौ द्र तां
त्य पा ये रि मो हि नी तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.