अथो शरस्तेन मदर्थमुज्झितः
फलं च तस्य प्रतिकायसाधनम् ।
अविक्षते तत्र मयात्मसात्कृते
कृतार्थता नन्वधिका चमूपतेः ॥

अन्वयः AI अथो तेन शरः मत्-अर्थम् उज्झितः, तस्य फलम् च प्रतिकाय-साधनम् । तत्र अविक्षते मया आत्मसात्-कृते (सति) चमूपतेः कृतार्थता ननु अधिका (स्यात्) ।
English Summary AI "Furthermore, that arrow was shot by him for my sake, and its result was the killing of my enemy. Since I have claimed it while it was undamaged, surely the satisfaction of your army's commander is even greater."
सारांश AI यदि उसने मेरे लिए बाण छोड़ा और उससे शत्रु का विनाश हुआ, तो लक्ष्य सिद्ध होने पर उस फल को पाकर तुम्हारे सेनापति की कृतार्थता तो और भी बढ़ जानी चाहिए।
घण्टापथव्याख्या (मल्लिनाथः) अथो इति ॥ अथो प्रश्ने । मङ्गलानन्तरारम्भप्रश्नकार्येष्वथो अथ इत्यमरः (अमरकोशः ३.३.२६२ ) । तेन नृपेण मदर्थं यथा तथा । अर्थेन सह नित्यसमासः । शर उज्झितस्त्यक्तस्तस्योज्झितस्य फलं च प्रतिकायस्य प्रतिपक्षस्य साधनं वधः। साधनं निर्वृतौ मेढ़े सैन्ये सिद्धौ वधे गतौ इति विश्वः । अविक्षतेऽखण्डिते तत्र तस्मिन्फले मयात्मसात्कृते स्वाधीनीकृते सति । तदधीनवचने (अष्टाध्यायी ५.४.५४ ) इति सातिप्रत्ययः । चमूपतेरधिका कृतार्थता साफल्यं ननु खलु । स्वायुधस्य परत्राणशत्रुवधपात्रप्रतिपादनायैकहेलया सिद्धेरित्यर्थः । तथाप्ययं शरलोभ इति कृपालुताया मूलान्यपि निकृन्ततीति भावः ॥ मार्गणैरथ तव प्रयोजनम् इत्यादिना यदुक्तं तन्निराचष्टे
पदच्छेदः AI
अथोअथो furthermore
शरःशर (१.१) the arrow
तेनतद् (३.१) by him
मदर्थम्मदर्थम् for my sake
उज्झितःउज्झित (√उझ्झ्+क्त, १.१) was shot
फलम्फल (१.१) the result
and
तस्यतद् (६.१) its
प्रतिकायसाधनम्प्रतिकायसाधन (१.१) was the killing of my enemy
अविक्षतेअविक्षत (७.१) while it was undamaged
तत्रतत्र since
मयाअस्मद् (३.१) by me
आत्मसात्कृतेआत्मसात्कृत (७.१) it has been claimed
कृतार्थताकृतार्थता (१.१) the satisfaction
ननुननु surely
अधिकाअधिक (१.१) is greater
चमूपतेःचमूपति (६.१) of your army's commander
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
थो स्ते र्थ मु ज्झि तः
लं स्य प्र ति का सा नम्
वि क्ष ते त्र या त्म सा त्कृ ते
कृ ता र्थ ता न्व धि का मू तेः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.