Loading data... On slow networks this could take a few minutes.
100%

वनाश्रयाः कस्य मृगाः परिग्रहाः
शृणाति यस्तान्प्रसभेन तस्य ते ।
प्रहीयतामत्र नृपेण मानिता
न मानिता चास्ति भवन्ति च श्रियः ॥

अन्वयः AI वन-आश्रयाः मृगाः कस्य परिग्रहाः? यः तान् प्रसभेन शृणाति, ते तस्य (भवन्ति) । अत्र नृपेण मानिता प्रहीयताम् । मानिता न अस्ति, श्रियः च भवन्ति च (विनश्यन्ति च) ।
English Summary AI "To whom do the forest-dwelling animals belong as property? They belong to whoever forcefully kills them. Let the pride of your king be abandoned here. Pride is ephemeral, and fortunes come and go."
सारांश AI वन में रहने वाले मृग भला किसके पालतू हैं? जो उन्हें बलपूर्वक मारता है, वे उसी के होते हैं। यहाँ राजा का गर्व व्यर्थ है, क्योंकि लक्ष्मी और मान सदा स्थिर नहीं रहते।
घण्टापथव्याख्या (मल्लिनाथः) वनेति ॥ वनाश्रया अत एव मृगाः कस्य परिग्रहाः । न कस्यापीत्यर्थः । किंतु यस्तान्मृगान्प्रसभेन बलात्कारेण शृणाति हिनस्ति । शॄ हिंसायाम् इति धातोर्लट् । ते मृगास्तस्य हन्तुः परिग्रहाः परिग्राह्याः । हन्ता चाहमेवेति भावः । ननु ममायमित्यभिमानान्नृपस्य स्वत्वमित्याशंक्याह:-अत्रेति । अत्र मृगे नृपेण मानिता ममेत्यभिमानः प्रहीयतां त्यज्यताम्। कुत इत्याशङ्ग्याभिमानमात्रेण स्वत्वाभावादित्याह-नेति। मानिता चास्ति । श्रियः स्वानि च भवन्तीति न । किंतु न भवन्त्येव । सत्यामभिमानितायामित्यर्थः । अभिमानमात्रेण स्वत्वेऽतिप्रसङ्गादिति भावः ॥ यष्टुमिच्छसि पितॄन् इत्यादिना यन्निष्कारणमवधीरित्युपालम्भि तत्रोत्तरमाह
पदच्छेदः AI
वनाश्रयाःवनआश्रय (१.३) Forest-dwelling
कस्यकिम् (६.१) whose
मृगाःमृग (१.३) animals
परिग्रहाःपरिग्रह (१.३) are property
शृणातिशृणाति (√शॄ कर्तरि लट् (परस्मै.) प्र.पु. एक.) kills
यःयद् (१.१) whoever
तान्तद् (२.३) them
प्रसभेनप्रसभ (३.१) forcefully
तस्यतद् (६.१) his
तेतद् (१.३) they are
प्रहीयताम्प्रहीयताम् (प्र√हा भावकर्मणोः लोट् (आत्मने.) प्र.पु. एक.) let be abandoned
अत्रअत्र here
नृपेणनृप (३.१) by the king
मानितामानिता (१.१) pride
not
मानितामानिता (१.१) pride
and
अस्तिअस्ति (√अस् कर्तरि लट् (परस्मै.) प्र.पु. एक.) is (permanent)
भवन्तिभवन्ति (√भू कर्तरि लट् (परस्मै.) प्र.पु. बहु.) come
and (go)
श्रियःश्री (१.३) fortunes
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
ना श्र याः स्य मृ गाः रि ग्र हाः
शृ णा ति स्ता न्प्र भे स्य ते
प्र ही ता त्र नृ पे मा नि ता
मा नि ता चा स्ति न्ति श्रि यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.