यदि प्रमाणीकृतमार्यचेष्टितं
किमित्यदोषेण तिरस्कृता वयम् ।
अयातपूर्वा परिवादगोचरं
सतां हि वाणी गुणमेव भाषते ॥

अन्वयः AI यदि आर्यचेष्टितम् प्रमाणीकृतम्, (तर्हि) अदोषेण वयम् किम् इति तिरस्कृताः? हि सताम् वाणी परिवादगोचरम् अयातपूर्वा (सती) गुणम् एव भाषते ।
English Summary AI "If the conduct of the noble is considered the standard, then why are we, being faultless, insulted like this? Indeed, the speech of the virtuous, never having been subject to censure before, speaks only of merit."
सारांश AI यदि सज्जनों का आचरण ही प्रमाण है, तो तुमने निष्पाप मुझ पर आक्षेप क्यों लगाया? सज्जनों की वाणी कभी निंदा नहीं करती, वह सदैव गुणों का ही विवेचन करती है।
घण्टापथव्याख्या (मल्लिनाथः) यदीति ॥ आर्यचेष्टितं सच्चरितं प्रमाणीकृतं यदि । साधुत्वेनाङ्गीकृतं यदीत्यर्थः । तर्ह्यदोषेण दोषाभावेऽपि । क्वचित्प्रसज्य प्रतिषेधेऽपि नञ्समासः इति भाष्यकारः । उपलक्षणे तृतीया। वयं किमिति तिरस्कृताः । न युक्तमित्यर्थः । हि यस्मात्परिवादगोचरं परनिन्दास्पदमायातपूर्वा सतां वाणी गुणमेव भाषते न दोषम् । अतस्ते मृषादोषभाषिणो न सदाचारप्रामाण्यवुद्धिरिति भावः । पूर्वं न यातेत्ययातपूर्वा। सुप्सुपेति समासः। परत्वात्सर्वनाम्नो निष्ठायाः पूर्वनिपातः। स्त्रियाः पुंवत् इत्यादिना पुंवद्भावः पूर्वलिङ्गता च । अर्थान्तरन्यासः ॥ नन्वप्रत्यक्षा परबुद्धिः कथं दुष्टेति निश्चीयते । तत्राह
पदच्छेदः AI
यदियदि if
प्रमाणीकृतम्प्रमाणीकृत (१.१) is considered the standard
आर्यचेष्टितम्आर्यचेष्टित (१.१) the conduct of the noble
किम्किम् why
इतिइति thus
अदोषेणअदोष (३.१) being faultless
तिरस्कृताःतिरस्कृत (१.३) are insulted
वयम्अस्मद् (१.३) we
अयातपूर्वाअयातपूर्व (१.१) never having been subject before
परिवादगोचरम्परिवादगोचर (२.१) to censure
सताम्सत् (√अस्+शतृ, ६.३) of the virtuous
हिहि indeed
वाणीवाणी (१.१) the speech
गुणम्गुण (२.१) of merit
एवएव only
भाषतेभाषते (√भाष् कर्तरि लट् (आत्मने.) प्र.पु. एक.) speaks
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
दि प्र मा णी कृ मा र्य चे ष्टि तं
कि मि त्य दो षे ति स्कृ ता यम्
या पू र्वा रि वा गो रं
तां हि वा णी गु मे भा ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.