ततः किरातस्य वचोभिरुद्धतैः
पराहतः शैल इवार्णवाम्बुभिः ।
जहौ न धैर्यं कुपितोऽपि पाण्डवः
सुदुर्ग्रहान्तःकरणा हि साधवः ॥

अन्वयः AI ततः उद्धतैः किरातस्य वचोभिः अर्णव-अम्बुभिः पराहतः शैलः इव (स्थितः) पाण्डवः कुपितः अपि धैर्यम् न जहौ । हि साधवः सु-दुर्-ग्रह-अन्तःकरणाः (भवन्ति) ।
English Summary AI Then, struck by the harsh words of the Kirata's attendant like a mountain by ocean waves, the son of Pandu (Arjuna), though angered, did not lose his composure. For indeed, the minds of the virtuous are very difficult to fathom.
सारांश AI समुद्र की लहरों से टकराए पर्वत के समान, किरात के उद्धत वचनों से आहत होने पर भी पाण्डुपुत्र अर्जुन ने धैर्य नहीं छोड़ा, क्योंकि सज्जनों का अंतःकरण अत्यंत दृढ़ होता है।
घण्टापथव्याख्या (मल्लिनाथः) तत इति ॥ ततः किरातवाक्यानन्तरमुद्धतै:प्रगल्भैः किरातस्य वचोभिः।अर्णवाम्बुभिः शैल इव पराहतोऽभिहतोऽत एव कुपितोऽपि पाण्डवो धैर्यं निर्विकारचित्तत्त्वं न जहौ न तत्याज। उत्पन्नमपि कोपं स्तम्भयामासेत्यर्थः । तथा हि । साधवः सजनाः सुदुर्ग्रहं सुष्ठु दुरासदमप्रकम्प्यमन्तःकरणं येषां ते सुदुर्ग्रहान्तःकरणा हि । अर्थान्तरन्यासः॥
पदच्छेदः AI
ततःततस् then
किरातस्यकिरात (६.१) of the Kirata
वचोभिःवचस् (३.३) by the words
उद्धतैःउद्धत (उद्√धृ+क्त, ३.३) arrogant
पराहतःपराहत (परा√हन्+क्त, १.१) struck
शैलःशैल (१.१) a mountain
इवइव like
अर्णवाम्बुभिःअर्णवअम्बु (३.३) by the waters of the ocean
जहौजहौ (√हा कर्तरि लिट् (परस्मै.) प्र.पु. एक.) he gave up
not
धैर्यम्धैर्य (२.१) composure
कुपितःकुपित (√कुप्+क्त, १.१) angered
अपिअपि even though
पाण्डवःपाण्डव (१.१) the son of Pandu (Arjuna)
सुदुर्ग्रहान्तःकरणाःसुदुर्ग्रहअन्तःकरण (१.३) whose minds are very difficult to grasp
हिहि for
साधवःसाधु (१.३) the virtuous
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
तः कि रा स्य चो भि रु द्ध तैः
रा तः शै वा र्ण वा म्बु भिः
हौ धै र्यं कु पि तो ऽपि पा ण्ड वः
सु दु र्ग्र हा न्तः णा हि सा वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.