Loading data... On slow networks this could take a few minutes.
100%

सज्यं धनुर्वहति योऽहिपतिस्थवीयः
स्थेयाञ्जयन्हरितुरङ्गमकेतुलक्ष्मीम् ।
अस्यानुकूलय मतिं मतिमन्ननेन
सख्या सुखं समभियास्यसि चिन्तितानि ॥

अन्वयः AI मतिमन्, यः अहि-पति-स्थवीयः स्थेयान् हरित्-तुरङ्गम-केतु-लक्ष्मीम् जयन् सज्यम् धनुः वहति, अस्य मतिम् अनुकूलय । अनेन सख्या (त्वम्) चिन्तितानि सुखम् समभियास्यसि ।
English Summary AI O wise one, make favorable the mind of him who, being firmer and conquering the splendor of Arjuna's banner, carries a strung bow thicker than Shesha, the king of serpents. With him as a friend, you will easily attain all your desired goals.
सारांश AI शेषनाग के समान विशाल धनुष धारण करने वाले और इंद्र के अश्व जैसी शोभा वाले इन राजा को प्रसन्न करो। इनकी मित्रता से तुम्हारे समस्त मनोरथ सिद्ध होंगे।
घण्टापथव्याख्या (मल्लिनाथः) सज्यमिति ॥ स्थेयान्स्थिरतरः । प्रियस्थिर- (अष्टाध्यायी ६.४.१५७ ) इत्यादिना स्थादेशः । यश्चमूपतिर्हरितुरंगमकेतोरिन्द्रध्वजस्य लक्ष्मीं शोभां जयन्।अहिपतिः शेष इव स्थवीयः स्थूलतरम्। स्थूलदूर- (अष्टाध्यायी ६.४.१५६ ) इत्यादिना पूर्वगुणयणादिपरलोपौ । सह ज्यया सज्यं धनुर्वहति । हे मतिमन्, अस्य चमूपतेर्मतिमनुकूलयानुकूलां कुरु । सख्यं कुर्वित्यर्थः । मतिमत्तायाः फलमेतदिति भावः । कुतः । सख्यानेन चमूपतिना हेतुना सुखमक्लेशेन चिन्तितानि मनोरथान्समभियास्यसि प्राप्स्यसि । वसन्ततिलकावृत्तम्
पदच्छेदः AI
सज्यम्सज्य (२.१) strung
धनुःधनुस् (२.१) bow
वहतिवहति (√वह् कर्तरि लट् (परस्मै.) प्र.पु. एक.) he carries
यःयद् (१.१) who
अहिपतिस्थवीयःअहिपतिस्थवीयस् (२.१) thicker than the lord of serpents
स्थेयान्स्थेयस् (१.१) firmer
जयन्जयत् (√जि+शतृ, १.१) conquering
हरितुरङ्गमकेतुलक्ष्मीम्हरित्तुरङ्गमकेतुलक्ष्मी (२.१) the splendor of the banner of one with green horses (Arjuna)
अस्यइदम् (६.१) his
अनुकूलयअनुकूलय (√अनुकूलय् कर्तरि लोट् (परस्मै.) म.पु. एक.) make favorable
मतिम्मति (२.१) the mind
मतिमन्मतिमत् (८.१) O wise one
अनेनइदम् (३.१) with this
सख्यासखि (३.१) friend
सुखम्सुखम् easily
समभियास्यसिसमभियास्यसि (सम्+अभि√या कर्तरि लृट् (परस्मै.) म.पु. एक.) you will attain
चिन्तितानिचिन्तित (√चिन्त्+क्त, २.३) your desired goals
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
ज्यं नु र्व ति यो ऽहि ति स्थ वी यः
स्थे या ञ्ज न्ह रि तु ङ्ग के तु क्ष्मीम्
स्या नु कू तिं ति न्न ने
ख्या सु खं भि या स्य सि चि न्ति ता नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.