मुनिरस्मि निरागसः कुतो मे
भयमित्येष न भूतयेऽभिमानः ।
परवृद्धिषु बद्धमत्सराणां
किमिव ह्यस्ति दुरात्मनामलङ्घ्यम् ॥

अन्वयः AI 'मुनिः अस्मि, निरागसः मे कुतः भयम्' इति एषः अभिमानः भूतये न। हि परवृद्धिषु बद्धमत्सराणाम् दुरात्मनाम् किम् इव अलङ्घ्यम् अस्ति?
English Summary AI 'The pride, "I am a sage, I am sinless, whence can fear come to me?" is not for my well-being. For what is impossible for the wicked-souled who are consumed with envy at the prosperity of others?'
सारांश AI मुनि होने के कारण मैं निर्भय हूँ, किंतु दूसरों की उन्नति से जलने वाले दुष्टों के लिए कुछ भी अलङ्घ्य नहीं होता।
घण्टापथव्याख्या (मल्लिनाथः) मुनिरिति ॥ मुनिरस्मि । अतो निरागसो निरपराधस्य मे कुतो भयमित्येयोऽभिमानोऽहंकारः । अनपकारिणं मां कोऽपि किं करिष्यतीति बुद्धिर्भूतये श्रेयसे न भवति । तथा हि । परवृद्धिषु विषये बद्धमत्सराणां दुरात्मनामलङ्घ्यं किमिवास्ति । न किंचिदकार्यमस्तीत्यर्थः । इवशब्दो वाक्यालंकारे । अस्तु । जिघांसुरपि तुच्छः किं करिष्यतीत्यत्राह
पदच्छेदः AI
मुनिःमुनि (१.१) a sage
अस्मिअस्मि (√अस् कर्तरि लट् (परस्मै.) उ.पु. एक.) I am
निरागसःनिरागस् (६.१) of me, who am sinless
कुतःकुतस् whence
मेअस्मद् (४.१) to me
भयम्भय (१.१) fear
इतिइति thus
एषःएतद् (१.१) this
not
भूतयेभूति (४.१) for well-being
अभिमानःअभिमान (१.१) pride
परवृद्धिषुपरवृद्धि (७.३) at the prosperity of others
बद्धमत्सराणाम्बद्धमत्सर (६.३) of those bound by envy
किम्किम् (१.१) What
इवइव indeed
हिहि for
अस्तिअस्ति (√अस् कर्तरि लट् (परस्मै.) प्र.पु. एक.) is
दुरात्मनाम्दुरात्मन् (६.३) for the wicked-souled
अलङ्घ्यम्अलङ्घ्य (१.१) impossible
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
मु नि स्मि नि रा सः कु तो मे
मि त्ये भू ये ऽभि मा नः
वृ द्धि षु द्ध त्स रा णां
कि मि ह्य स्ति दु रा त्म ना ङ्घ्यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.