Loading data... On slow networks this could take a few minutes.
100%

न मृगः खलु कोऽप्ययं जिघांसुः
स्खलति ह्यत्र तथा भृशं मनो मे ।
विमलं कलुषीभवच्च चेतः
कथयत्येव हितैषिणं रिपुं वा ॥

अन्वयः AI अयम् कः अपि जिघांसुः, खलु मृगः न। हि अत्र मे मनः तथा भृशम् स्खलति। विमलम् कलुषीभवत् च चेतः हितैषिणम् वा रिपुम् एव कथयति।
English Summary AI 'This is certainly not an ordinary animal, but someone desirous of killing. For my mind falters so greatly in this matter. And a clear mind becoming turbid indicates either a well-wisher or an enemy.'
सारांश AI यह निश्चित ही कोई साधारण पशु नहीं अपितु वध का इच्छुक शत्रु है, क्योंकि मेरा निर्मल मन अशांत होकर शत्रु की उपस्थिति का संकेत दे रहा है।
घण्टापथव्याख्या (मल्लिनाथः) न मृग इति । अयं मृगो न खलु, किंतु कोऽपि कश्चिदन्य एव जिघांसुर्हन्तुमिच्छुः। हन्तेः सन्नन्तादुप्रत्ययः।अभ्यासाच्च (अष्टाध्यायी ७.३.५५ ) इति कुत्वम्।अज्झनगमां सनि (अष्टाध्यायी ६.४.१६ ) इति दीर्घ:। कुतः । हि यस्मात् । अत्रास्मिन्मृगविषये मे मनस्तथा भृशं स्वलति क्षुभ्यति । यथायं जिघांसुरयमिति बुद्धिरुत्पद्यत इत्यर्थः । तथा हि । विमलं प्रसन्नं तथा कलुषीभवत्क्षु भ्यश्च चेत एव हितैषिणं रिपुं वा मित्रममित्रं च कथयति । यत्र यत्र मनः प्रसीदति तदेव मित्रम् । यत्र क्षुभ्यति सोऽमित्र इति निश्चितमित्यर्थः । अतोऽयं वध्य इति भावः। ननु मुनेः किमनया दुःशङ्कया । तत्राह
पदच्छेदः AI
not
मृगःमृग (१.१) an animal
खलुखलु indeed
कःकिम् (१.१) some
अपिअपि one
अयम्इदम् (१.१) this
जिघांसुःजिघांसु (√हन्+सन्+उ, १.१) desirous of killing
स्खलतिस्खलति (√स्खल् कर्तरि लट् (परस्मै.) प्र.पु. एक.) falters
हिहि For
अत्रअत्र in this matter
तथातथा so
भृशम्भृशम् greatly
मनःमनस् (१.१) mind
मेअस्मद् (६.१) my
विमलम्विमल (१.१) clear
कलुषीभवत्कलुषीभवत् (√कलुषीभू+शतृ, १.१) becoming turbid
and
चेतःचेतस् (१.१) consciousness
कथयतिकथयति (√कथ् +णिच् कर्तरि लट् (परस्मै.) प्र.पु. एक.) indicates
एवएव indeed
हितैषिणम्हितैषिन् (२.१) a well-wisher
रिपुम्रिपु (२.१) an enemy
वावा or
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
मृ गः लु को ऽप्य यं जि घां सुः
स्ख ति ह्य त्र था भृ शं नो मे
वि लं लु षी च्च चे तः
त्ये हि तै षि णं रि पुं वा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.