Loading data... On slow networks this could take a few minutes.
100%

अस्त्रवेदविदयं महीपतिः
पर्वतीय इति मावजीगणः ।
गोपितुं भुवमिमां मरुत्वता
शैलवासमनुनीय लम्भितः ॥

अन्वयः AI अयम् महीपतिः अस्त्र-वेद-वित्, (अयम्) पर्वतीयः इति मा अवजीगणः । (अयम्) मरुत्वता इमाम् भुवम् गोपितुम् अनुनीय शैल-वासम् लम्भितः ।
English Summary AI This king is a master of the science of weapons; do not disregard him as a mere mountaineer. He was persuaded by Indra to take up residence in these mountains in order to protect this land.
सारांश AI इन्हें केवल एक पर्वतीय राजा मत समझो, ये अस्त्रविद्या के ज्ञाता हैं। इंद्र ने पृथ्वी की रक्षा के लिए इन्हें हिमालय पर रहने हेतु प्रेरित किया है।
घण्टापथव्याख्या (मल्लिनाथः) अस्त्रेति ॥ अयं महीपतिरस्त्रवेदवित् । निग्रहानुग्रहसमर्थ इति भावः। अतः पर्वते भवः पर्वतीयः । पर्वताच्च (अष्टाध्यायी ४.२.१४३ ) इति छप्रत्ययः (अष्टाध्यायी ३.१.१ ) । इति हेतोर्मावजीगणः । वनेचरबुद्ध्या मावज्ञासीरित्यर्थः । गणयतेर्माङि लुङ् । ई च गणः (अष्टाध्यायी ७.४.९७ ) इतीकारः । नन्वीदशश्चेत्किमर्थमिह वने वसति तत्राह-~-गोपितुमिति । मरुत्वतेन्द्रेणेमां भुवं गोपितुं रक्षितुम् । आयादय आर्धधातुके वा (अष्टाध्यायी ३.१.३१ ) इति विकल्पात् गुपूधूप— (अष्टाध्यायी ३.१.२८ ) इत्यादिना नायप्रत्ययः। अनुनीय प्रार्थ्य शैलवासं लम्भितः प्रापितः । ण्यन्ते कर्तुश्च कर्मणः इति वचनादणि कर्तृकर्मणि क्तः। गतिबुद्धि- (अष्टाध्यायी १.४.५२ ) इत्यादिनाणि कर्तुः कर्मत्वम् ॥ उपसंहरति
पदच्छेदः AI
अस्त्रवेदवित्अस्त्रवेदविद् (१.१) knower of the science of weapons
अयम्इदम् (१.१) this
महीपतिःमहीपति (१.१) king
पर्वतीयःपर्वतीय (१.१) a mountaineer
इतिइति thus
मावजीगणःअवजीगणः (अव√गण् +णिच् कर्तरि लुङ् (परस्मै.) म.पु. एक.) do not disregard
गोपितुम्गोपितुम् (√गुप्+तुमुन्) to protect
भुवम्भू (२.१) the earth
इमाम्इदम् (२.१) this
मरुत्वतामरुत्वत् (३.१) by Indra
शैलवासम्शैलवास (२.१) residence in the mountains
अनुनीयअनुनीय (अनु√नी+ल्यप्) having persuaded
लम्भितःलम्भित (√लभ्+णिच्+क्त, १.१) was made to obtain
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
स्त्र वे वि यं ही तिः
र्व ती ति मा जी णः
गो पि तुं भु मि मां रु त्व ता
शै वा नु नी म्भि तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.