यष्टुमिच्छसि पितॄन्न साम्प्रतं
संवृतोऽर्चिचयिषुर्दिवौकसः ।
दातुमेव पदवीमपि क्षमः
किं मृगेऽङ्ग विशिखं न्यवीविशः ॥

अन्वयः AI साम्प्रतम् पितॄन् यष्टुम् न इच्छसि, दिवौकसः अर्चिचयिषुः (अपि) न संवृतः । (त्वम्) पदवीम् अपि दातुम् एव क्षमः (असि) । अङ्ग, मृगे विशिखम् किम् न्यवीविशः?
English Summary AI It is not proper for you now to wish to worship the ancestors, nor have you become desirous of worshipping the gods. You are capable of giving away even your high status. O friend, why then did you shoot your arrow at a mere boar?
सारांश AI तुम न तो पितरों का तर्पण करना चाहते हो और न देवताओं की पूजा। फिर मार्ग देने में सक्षम होते हुए भी तुमने मृग पर बाण क्यों चलाया?
घण्टापथव्याख्या (मल्लिनाथः) यष्टुमिति ॥ सांप्रतं संप्रति । संप्रतीदानीमधुना सांप्रतं तथा इत्यमरः (अमरकोशः ३.४.२३ ) । पितृन्कव्यवाडादीन्यष्टुमर्चयितुं नेच्छसि । यतः संवृत एकान्ते स्थितः। तथा दिवौकसो देवानर्चिचयिषुरप्यर्चयितुमिच्छुरपि नासि । अतो न पित्रर्थेयं हिंसा, नापि देवतार्था । तदाराधने तद्विहितत्वादिति भावः। अथ सर्वत आत्मानं गोपायीत इति श्रुतेरात्मरक्षार्थमिति चेन्नेत्याह-दातुमिति । अङ्ग हे, पदवीं मार्गं दातुमेव । न तु हन्तुम् । मुनित्वादिति भावः । क्षभोऽपि योग्यः सन्नपि । किं किमर्थं मृगे विशिखं न्यवीविशो निवेशितवान् । विशतेर्ण्यन्ताल्लुङ् । अभिधावतो मृगादपसरणेनैवात्मरक्षणे कर्तव्ये यवधीस्तच्चापलमेव । न हिंस्यात्सर्वाभूतानि इति श्रुतिनिषेधादिति भावः ॥ किं बहुना परमार्थः श्रूयतामित्याह
पदच्छेदः AI
यष्टुम्यष्टुम् (√यज्+तुमुन्) to worship
इच्छसिइच्छसि (√इष् कर्तरि लट् (परस्मै.) म.पु. एक.) you wish
पितॄन्पितृ (२.३) the ancestors
not
साम्प्रतम्साम्प्रतम् now/it is not proper
संवृतःसंवृत (सम्√वृ+क्त, १.१) you have become
अर्चिचयिषुःअर्चिचयिषु (√अर्च्+सन्+उ, १.१) desirous of worshipping
दिवौकसःदिवौकस् (२.३) the gods
दातुम्दातुम् (√दा+तुमुन्) to give
एवएव even
पदवीम्पदवी (२.१) position
अपिअपि also
क्षमःक्षम (१.१) capable
किम्किम् why
मृगेमृग (७.१) on the boar
अङ्गअङ्ग O friend
विशिखम्विशिख (२.१) arrow
न्यवीविशःन्यवीविशः (नि√विश् +णिच् कर्तरि लुङ् (परस्मै.) म.पु. एक.) did you shoot
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
ष्टु मि च्छ सि पि तॄ न्न सा म्प्र तं
सं वृ तो ऽर्चि यि षु र्दि वौ सः
दा तु मे वी पि क्ष मः
किं मृ गे ऽङ्ग वि शि खं न्य वी वि शः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.