जन्मवेषतपसां विरोधिनीं
मा कृथाः पुनरमूमपक्रियाम् ।
आपदेत्युभयलोकदूषणी
वर्तमानमपथे हि दुर्मतिम् ॥

अन्वयः AI जन्म-वेष-तपसाम् विरोधिनीम् अमूम् अपक्रियाम् पुनः मा कृथाः । हि उभय-लोक-दूषणी आपद् अपथे वर्तमानम् दुर्मतिम् एति ।
English Summary AI Do not again commit this wrongful act, which contradicts your birth, attire, and penance. For calamity, which brings disgrace in both this world and the next, befalls the evil-minded person who walks the wrong path.
सारांश AI अपने कुल, वेश और तपस्या के विरुद्ध ऐसा कार्य पुनः मत करो। कुमार्ग पर चलने वाली दुर्मति दोनों लोकों को दूषित कर विपत्ति लाती है।
घण्टापथव्याख्या (मल्लिनाथः) जन्मेति । जन्म सत्कुले प्रसूतिः, वेषो जटावल्कलादिः, तपो नियमः, तेषां वि विरोधिनीं विरुद्धाममूमेवंविधामपक्रियामपकारम् । पुनः । इतःपरमित्यर्थः । मा कृथा मा कुरु । करोतेः कर्तरि माङि लुङ् । 'वयोवृद्ध्यर्थवाग्वेषश्रुताभिनयकर्मणाम् । आचरेत्सदृशीं वृत्तिमजिह्मामशठाम् तथा ॥ इति स्मरणात् । उक्तवैपरीत्ये दोषमाहआपदिति । हि यस्मात् । अपथे वर्तमानं दुर्मतिम् । पुरुषमिति शेषः । उभौ लोकौ दूषयति हन्तीत्युभयलोकदूषणी । 'तद्धितार्थ-' इत्यादिनोत्तरपदसमासः। आपदेति प्राप्नोति । समासविषय उभशब्दस्थाने उभयशब्दप्रयोग एव साधुः । यदाह कैयट:—'उभादुदात्तो नित्यमिति नित्यग्रहणस्येदं प्रयोजनं वृत्तिविषय उभशब्दस्य प्रयोगो मा भूत् । उभयशब्दस्यैव रूपं यथा स्यादित्युभयत्रेत्यादि भवति' इति ॥ यदुक्तम् 'अभ्यधानि' इति तदेव स्फुटयतियष्टुमिच्छसि पितृन्न सांप्रतं संवृतोऽर्चिचयिषुर्दिवौकसः । दातुमेव पदवीमपि क्षमः किं मृगेऽङ्ग विशिखं न्यवीविशः
पदच्छेदः AI
जन्मवेषतपसाम्जन्मवेषतपस् (६.३) of your birth, attire, and penance
विरोधिनीम्विरोधिन् (२.१) contradictory to
मामा do not
कृथाःकृथाः (√कृ कर्तरि लुङ् (आत्मने.) म.पु. एक.) do
पुनःपुनर् again
अमूम्अदस् (२.१) this
अपक्रियाम्अपक्रिया (२.१) wrongful act
आपद्आपद् (१.१) calamity
एतिएति (√इ कर्तरि लट् (परस्मै.) प्र.पु. एक.) comes to
उभयलोकदूषणीउभयलोक–दूषणी (१.१) which pollutes both worlds
वर्तमानम्वर्तमान (√वृत्+शानच्, २.१) who is proceeding
अपथेअपथ (७.१) on the wrong path
हिहि for
दुर्मतिम्दुर्मति (२.१) an evil-minded person
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
न्म वे सां वि रो धि नीं
मा कृ थाः पु मू क्रि याम्
दे त्यु लो दू णी
र्त मा थे हि दु र्म तिम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.