अस्त्रवेदमधिगम्य तत्त्वतः
कस्य चेह भुजवीर्यशालिनः ।
जामदग्न्यमपहाय गीयते
तापसेषु चरितार्थमायुधम् ॥

अन्वयः AI इह अस्त्र-वेदम् तत्त्वतः अधिगम्य जामदग्न्यम् अपहाय, कस्य अन्यस्य भुज-वीर्य-शालिनः तापसेषु आयुधम् चरितार्थम् गीयते?
English Summary AI In this world, having mastered the science of weapons in its entirety, besides Parashurama, which other ascetic endowed with mighty arms is spoken of as having successfully employed his weapons?
सारांश AI अस्त्रविद्या का पूर्ण ज्ञान रखने वाले भुजबलशाली तपस्वियों में परशुराम के अतिरिक्त और किसका शस्त्र सफल माना गया है?
घण्टापथव्याख्या (मल्लिनाथः) अस्त्रवेदमिति ॥ इह जगति तापसेषु तपस्विनां मध्ये । यतश्च निर्धारणम् (अष्टाध्यायी २.३.४१ ) इति सप्तमी । जमदग्नेरपत्यं पुमाञ्जामदग्न्य: । गर्गादिभ्यो यञ् (अष्टाध्यायी ४.१.१०५ ) । तमपहाय । परशुरामं विनेत्यर्थः । अस्त्रवेदं तत्त्वतोऽधिगम्य । भुजवीर्येण शालत इति भुजवीर्यशालिनः । उभयसंपन्नस्येत्यर्थः । शालनक्रियापेक्षया समानकर्तृकत्वात्क्त्वानिर्देशः। कस्य वायुधं चरितः प्राप्तोऽर्थो येन तच्चरितार्थं सार्थकं गीयते । न कस्यापीत्यर्थः । अतस्तवापि तापसत्वादकिंचित्करस्य तेन सह सख्यमेव मुख्यमिति भाव: ॥ ननु युष्मन्मृगवधशरहरणाभ्यां द्रोहिणो मम तेन कथं सख्यं स्यादित्याशङ्क्य सत्यं तथापि तावन्मृगवधापराधः क्षमिष्यत इत्याह
पदच्छेदः AI
अस्त्रवेदम्अस्त्रवेद (२.१) the science of weapons
अधिगम्यअधिगम्य (अधि√गम्+ल्यप्) having mastered
तत्त्वतःतत्त्वतस् in its essence
कस्यकिम् (६.१) whose
and
इहइह here (in this world)
भुजवीर्यशालिनःभुजवीर्यशालिन् (६.१) of one endowed with the strength of arms
जामदग्न्यम्जामदग्न्य (२.१) Parashurama
अपहायअपहाय (अप√हा+ल्यप्) leaving aside
गीयतेगीयते (√गै भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is spoken of
तापसेषुतापस (७.३) among ascetics
चरितार्थम्चरितअर्थ (१.१) having its purpose fulfilled
आयुधम्आयुध (१.१) weapon
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
स्त्र वे धि म्य त्त्व तः
स्य चे भु वी र्य शा लि नः
जा ग्न्य हा गी ते
ता से षु रि ता र्थ मा यु धम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.