नाभियोक्तुमनृतं त्वमिष्यते
कस्तपस्विविशिखेषु चादरः ।
सन्ति भूभृति शरा हि नः परे
ये पराक्रमवसूनि वज्रिणः ॥

अन्वयः AI त्वम् अनृतम् अभियोक्तुम् न इष्यते । तपस्वि-विशिखेषु कः आदरः च? हि भूभृति नः परे शराः सन्ति, ये वज्रिणः पराक्रम-वसूनि (सन्ति) ।
English Summary AI It is not desirable for you to make a false accusation. And what regard can be had for the arrows of an ascetic? Indeed, our king possesses other arrows, which are the very treasures of Indra's valor.
सारांश AI हम आप पर मिथ्या आरोप नहीं लगा रहे हैं। एक तपस्वी के बाणों का क्या मूल्य? राजा के पास तो इन्द्र के वज्र के समान पराक्रमी और श्रेष्ठ बाण विद्यमान हैं।
घण्टापथव्याख्या (मल्लिनाथः) नेति ॥ त्वमनृतं मिथ्याभियोक्तुमभ्याख्यातुम् । ब्रूञोऽर्थग्रहणाद्विकर्मकता । मिथ्याभियोगोऽभ्याख्यानम् इत्यमरः (अमरकोशः १.६.१० ) । अस्माभिरिति शेषः । नेष्यसे नेष्टोऽसि । कुतः। तपस्वी मुनिः शोच्यश्च । मुनिशोच्यौ तपस्विनौ इति शाश्वतः । तस्य विशिखेषु क आदरः कास्था । न काचिदित्यर्थः । हि यस्यान्नोऽस्माकं भूभृति शैले परेऽन्येऽपि शराः सन्ति ये शरा वज्रिणः शक्रस्य पराक्रमवसूनि पराक्रमधनानि । शौर्यसर्वस्वभूता इत्यर्थः । वज्रिग्रहणाद्वज्रादप्यतिरिच्यन्त इति सूच्यते । अत्र शरेषु पराक्रमसाधनेषु पराक्रमरूपेण वस्तु व्यज्यते ॥ अथ ते शरापेक्षा चेत्तर्हि तथोच्यतामित्याह
पदच्छेदः AI
not
अभियोक्तुम्अभियोक्तुम् (अभि√युज्+तुमुन्) to accuse
अनृतम्अनृत (२.१) falsely
त्वम्युष्मद् (१.१) you
इष्यतेइष्यते (√इष् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) it is desired
कःकिम् (१.१) what
तपस्विविशिखेषुतपस्विन्विशिख (७.३) in the arrows of an ascetic
and
आदरःआदर (१.१) regard
सन्तिसन्ति (√अस् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) there are
भूभृतिभूभृत् (७.१) on the king
शराःशर (१.३) arrows
हिहि for
नःअस्मद् (६.३) our
परेपर (१.३) other/superior
येयद् (१.३) which
पराक्रमवसूनिपराक्रमवसु (१.३) the treasures of valor
वज्रिणःवज्रिन् (६.१) of Indra
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
ना भि यो क्तु नृ तं त्व मि ष्य ते
स्त स्वि वि शि खे षु चा रः
न्ति भू भृ ति रा हि नः रे
ये रा क्र सू नि ज्रि णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.