वाजिभूमिरिभराजकाननं
सन्ति रत्ननिचयाश्च भूरिशः ।
काञ्चनेन किमिवास्य पत्त्रिणा
केवलं न सहते विलङ्घनम् ॥

अन्वयः AI अस्य वाजि-भूमिः, इभ-राज-काननम्, भूरिशः रत्न-निचयाः च सन्ति । काञ्चनेन पत्त्रिणा इव अयम् केवलम् विलङ्घनम् न सहते ।
English Summary AI He possesses lands of horses, forests of royal elephants, and abundant heaps of jewels. Like a golden-feathered arrow, he simply does not tolerate transgression.
सारांश AI राजा के पास श्रेष्ठ अश्व, हाथी और प्रचुर रत्न हैं; उसे स्वर्णजटित बाण का कोई लोभ नहीं है, वह केवल अपने अधिकार के उल्लंघन को सहन नहीं करता है।
घण्टापथव्याख्या (मल्लिनाथः) वाजीति ॥ तस्य भूपतेर्वाजिभूमिरश्वाकर इमराजानां काननं गजोत्पत्तिस्थानं भूरिशो रत्ननिचयाश्च । सन्तीति शेषः । नन्वीदृगाढ्यः किमेकस्मै काञ्चनपत्रकाण्डाय कलहायते । तत्राह—अस्य काञ्चनेन सौवर्णेन पत्रिणा शरेण किमिव । न किंचित्प्रयोजनमस्तीत्यर्थः। परंतु केवलं विलङ्घनं व्यतिक्रमं न सहते । नायं शरलुब्धः। किं त्वधिक्षेपासहिष्णुरित्यर्थः । अत्र प्रथमार्धे समृद्धिमद्वस्तुवर्णनादुदात्तालंकारः॥ नन्वीदृग्लुब्धः किमुपकर्ता । तत्राहसावलेपमुपलिप्सिते परैरभ्युपैति विकृतिं रजस्यपि । अर्थितस्तु न महान्समीहते जीवितं किमु धनं धनायितुम्
पदच्छेदः AI
वाजिभूमिःवाजिभूमि (१.१) land of horses
इभराजकाननम्इभराजकानन (१.१) forest of kingly elephants
सन्तिसन्ति (√अस् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) there are
रत्ननिचयाःरत्ननिचय (१.३) heaps of jewels
and
भूरिशःभूरिशस् abundantly
काञ्चनेनकाञ्चन (३.१) with gold
किमिवास्यकिम्इव–अस्य what of his...
पत्त्रिणापत्त्रिन् (३.१) with an arrow
केवलम्केवलम् only
not
सहतेसहते (√सह् कर्तरि लट् (आत्मने.) प्र.पु. एक.) he tolerates
विलङ्घनम्विलङ्घन (वि√लंघ्+ल्युट्, २.१) transgression
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
वा जि भू मि रि रा का नं
न्ति त्न नि या श्च भू रि शः
का ञ्च ने कि मि वा स्य त्त्रि णा
के लं ते वि ङ्घ नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.