Loading data... On slow networks this could take a few minutes.
100%

जेतुमेव भवता तपस्यते
नायुधानि दधते मुमुक्षवः ।
प्राप्स्यते च सकलं महीभृता
संगतेन तपसः फलं त्वया ॥

अन्वयः AI भवता जेतुम् एव तपस्यते, मुमुक्षवः आयुधानि न दधते । महीभृता संगतेन त्वया च तपसः सकलम् फलम् प्राप्स्यते ।
English Summary AI You are performing penance only to conquer; those who seek liberation do not bear arms. By you, united with this king, the entire fruit of your penance will be obtained.
सारांश AI आप विजय प्राप्ति के लिए तप कर रहे हैं, जबकि मोक्ष की इच्छा रखने वाले अस्त्र धारण नहीं करते। इस राजा से मित्रता करके ही आपको अपने तप का पूर्ण फल प्राप्त होगा।
घण्टापथव्याख्या (मल्लिनाथः) जेतुमिति ॥ भस्वता जेतुं जयार्थमेव तपस्यते तपश्चर्यते।कर्मणो रोमन्थ- (अष्टाध्यायी ३.१.१५ ) इत्यादिना चरणे क्यङ् । ततो भावे लट् । कुतः। मुमुक्षवो मोक्षार्थिन आयुधानि न दधते न धारयन्ति । अतो मित्रसंग्रहः कार्य इति भावः । तथापि किं भवत्स्वामिसख्येन । तत्राह-प्राप्स्यत इति । महीभृता सह संगतेन त्वया सकलं तपसः फलं प्राप्स्यते । अतस्ते सखास्मत्स्वामी युक्त इत्यर्थः ॥ नन्वकिंचनः कुत्रोपयुज्यते । तत्राह
पदच्छेदः AI
जेतुम्जेतुम् (√जि+तुमुन्) to conquer
एवएव only
भवताभवत् (३.१) by you
तपस्यतेतपस्यते (√तपस्य् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) penance is being performed
not
आयुधानिआयुध (२.३) weapons
दधतेदधते (√धा कर्तरि लट् (आत्मने.) प्र.पु. बहु.) they hold
मुमुक्षवःमुमुक्षु (√मुच्+सन्+उ, १.३) those who desire liberation
प्राप्स्यतेप्राप्स्यते (प्र√आप् भावकर्मणोः लृट् (आत्मने.) प्र.पु. एक.) will be obtained
and
सकलम्सकल (२.१) entire
महीभृतामहीभृत् (३.१) with the king
संगतेनसंगत (सम्√गम्+क्त, ३.१) united
तपसःतपस् (६.१) of the penance
फलम्फल (२.१) fruit
त्वयायुष्मद् (३.१) by you
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
जे तु मे ता स्य ते
ना यु धा नि ते मु मु क्ष वः
प्रा प्स्य ते लं ही भृ ता
सं ते सः लं त्व या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.