Loading data... On slow networks this could take a few minutes.
100%

मित्रमिष्टमुपकारि संशये
मेदिनीपतिरयं तथा च ते ।
तं विरोध्य भवता निरासि मा
सज्जनैकवसतिः कृतज्ञता ॥

अन्वयः AI अयम् मेदिनीपतिः ते मित्रम् इष्टम् संशये उपकारि च । तथा भवता तम् विरोध्य सज्जन-एक-वसतिः कृतज्ञता मा निरासि ।
English Summary AI This king is your friend, dear to you, and a helper in times of trouble. Therefore, by opposing him, do not cast away gratitude, which is the sole dwelling place of the virtuous.
सारांश AI यह राजा संकट में आपके उपकारी मित्र हैं। इनसे विरोध करके उस कृतज्ञता का परित्याग न करें, जो सज्जन पुरुषों का एकमात्र निवास स्थान मानी जाती है।
घण्टापथव्याख्या (मल्लिनाथः) मित्रमिति ॥ तथा च । तस्यैव मृगहन्तृत्वे सतीत्यर्थः । अयं मेदिनीपतिः किरातभूपतिस्ते तव संशये प्राणसंकट उपकार्युपकारकारकमिष्टं मित्रम्। ततोऽपि किं तत्राहतमिति । तं मित्रभूतं विरोध्य सज्जनैकवसतिर्भवादृशसुजनमात्राधारा कृतज्ञतोपकारवेदित्वं मा निरासि न निराक्रियतां भवता । अन्यथा जगति कृतज्ञतास्तमियात्, कृतघ्नता च ते भवेदित्यर्थः । अत्यतेः कर्मण्याशिषि माङि लुङ् ॥ ननु सर्वस्यार्थमूलत्वात्स एवास्तु । किं मित्रेणेत्याशङ्क्य मित्रस्य-सर्वाधिक्यं युग्मेनाह
पदच्छेदः AI
मित्रम्मित्र (२.१) friend
इष्टम्इष्ट (√इष्+क्त, २.१) dear
उपकारिउपकारिन् (२.१) helpful
संशयेसंशय (७.१) in doubt/danger
मेदिनीपतिःमेदिनीपति (१.१) the lord of the earth (king)
अयम्इदम् (१.१) this
तथातथा so
and
तेयुष्मद् (६.१) your
तम्तद् (२.१) him
विरोध्यविरोध्य (वि√रुध्+ल्यप्) having opposed
भवताभवत् (३.१) by you
निरासिनिरासि (निर्√अस् कर्तरि लुङ् (परस्मै.) म.पु. एक.) do not cast away
मामा do not
सज्जनैकवसतिःसज्जनएकवसति (२.१) the sole abode of good people
कृतज्ञताकृतज्ञता (२.१) gratitude
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
मि त्र मि ष्ट मु का रि सं ये
मे दि नी ति यं था ते
तं वि रो ध्य ता नि रा सि मा
ज्ज नै तिः कृ ज्ञ ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.