को न्विमं हरितुरङ्गमायुध-
स्थेयसीं दधतमङ्गसंहतिम् ।
वेगवत्तरमृते चमूपते-
र्हन्तुमर्हति शरेण दंष्ट्रिणम् ॥

सारांश AI इन्द्र के वज्र के समान कठोर शरीर वाले और अत्यंत वेगवान इस वराह को सेनापति के अतिरिक्त और कौन अपने बाण से मारने में समर्थ हो सकता था?
घण्टापथव्याख्या (मल्लिनाथः) क इति ॥हरितुरङ्गमायुधमिद्रायुधं तद्वत्स्थेयसीं स्थिरतराम् । वज्रकठिनामित्यर्थः । स्थिरशब्दादीयसुन् । प्रियस्थिर- (अष्टाध्यायी ६.४.१५७ ) इत्यादिना स्थादेशः । अङ्गसंहतिमवयवसंघातं दधतं धारयन्तं वेगवत्तरं दुर्वारवेगमिमं दंष्ट्रिणं वराहं चमूपतेः किरातवाहिनीपतेरृते चमूपतिं विना । अन्यारात्- इत्यादिना पञ्चमी । को नु को वा शरेण । एकेनेति भावः । हन्तुमर्हति । न कोऽपीत्यर्थः ॥ अस्तु स इव मृगस्य हन्ता । ततः किमित्यत आह
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
को न्वि मं रि तु ङ्ग मा यु
स्थे सीं ङ्ग सं तिम्
वे त्त मृ ते मू ते
र्ह न्तु र्ह ति रे दं ष्ट्रि णम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.