Loading data... On slow networks this could take a few minutes.
100%

अन्यदोषमिव सः स्वकं गुणं
ख्यापयेत्कथमधृष्टताजडः ।
उच्यते स खलु कार्यवत्तया
धिग्विभिन्नबुधसेतुमर्थिताम् ॥

सारांश AI कोई निर्लज्ज ही दूसरे के दोष को अपना गुण बता सकता है। स्वार्थ के वशीभूत होकर ऐसी याचना करना विद्वानों द्वारा स्थापित मर्यादा के सेतु को नष्ट करने के समान है।
घण्टापथव्याख्या (मल्लिनाथः) अन्येति । अधृष्टतया विकत्थनेन शालीनतया जडः स्तब्धः । अविकस्थन इत्यर्थः। सोऽस्मत्स्वाम्यन्यदोषं परावरगुणमिव स्वकं स्वकीयं गुणं कथं ख्यापयेत्प्रकटयेत् । आत्मप्रशंसां परगर्हामिव वर्जयेत् इति स्मरणादिति भावः । तथापि कार्यवत्तया । कार्यार्थितयेत्यर्थः । स स्वगुण उच्यते खलु । कार्यार्थिनः कुतो गर्व इति भावः । निर्विण्ण इवाह-धिगिति । विभिन्नबुधसेतुमतिकान्तसुजनमर्यादामर्थितां याचनां धिक् । निन्दामीत्यर्थः । यदयमपीत्थं विकथयितुं प्रवृत्त इति भावः । धिङ्तिर्भर्त्सननिन्दयोः इत्यमरः । अभिसर्वतसोः कार्याधिगुपर्यादिषु त्रिषु । द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते इति द्वितीया ॥ संप्रति स्वकृतोपकारं दर्शयति
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
न्य दो मि सः स्व कं गु णं
ख्या ये त्क धृ ष्ट ता डः
च्य ते लु का र्य त्त या
धि ग्वि भि न्न बु से तु र्थि ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.