Loading data... On slow networks this could take a few minutes.
100%

संततं निशमयन्त उत्सुका
यैः प्रयान्ति मुदमस्य सूरयः ।
कीर्तितानि हसितेऽपि तानि यं
व्रीडयन्ति चरितानि मानिनम् ॥

सारांश AI विद्वान लोग उन चरित्रों को उत्सुकता से सुनते हैं जिनसे प्रसन्नता मिलती है, किंतु मिथ्या प्रशंसा किए जाने पर स्वाभिमानी व्यक्ति हंसी-मजाक में भी लज्जित हो जाता है।
घण्टापथव्याख्या (मल्लिनाथः) संततमित्यादि ॥ सूरयो विद्वांसोऽस्यात्मत्स्वामिनः संबन्धिभिर्यैश्चरितैः करणभूतैः संततं सततमुत्सुकाः सोत्कण्ठाः सन्तो निशमयन्तश्चरितानि शृण्वन्तो मुदं प्रयान्ति । अत्र चरितानां मुत्प्राप्तौ शाब्दं करणत्वम् । अर्थान्निशमनकर्मत्वमिति विवेकः । तानि चरितानि हसितेऽपि परिहासेऽपि कीर्तितानि परैरुच्चारितानि सन्ति यं मानिनं व्रीडयन्ति। मानित्वाद्व्रीडा न तु चरितदोषात् । तेषामलंकाररूपत्वादिति भावः ॥
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
सं तं नि न्त त्सु का
यैः प्र या न्ति मु स्य सू यः
की र्ति ता नि सि ते ऽपि ता नि यं
व्री न्ति रि ता नि मा नि नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.