तिष्ठतां तपसि पुण्यमासज-
न्सम्पदोऽनुगुणयन्सुखैषिणाम् ।
योगिनां परिणमन्विमुक्तये
केन नास्तु विनयः सतां प्रियः ॥

सारांश AI सज्जनों की विनयशीलता सबको प्रिय क्यों न हो? यह तपस्वियों को पुण्य, सुख चाहने वालों को अनुकूल संपत्ति और योगियों को मोक्ष प्रदान करने वाली होती है।
घण्टापथव्याख्या (मल्लिनाथः) तिष्ठतामिति ॥ तपसि तिष्ठतां तपोनिष्ठानाम् । धर्मार्थनामित्यर्थः । पुण्यं धर्ममासजन्संपादयन् । स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः इत्यमरः (अमरकोशः १.४.२५ ) । सुखैषिणां सुखार्थिनां संपदः सुखसाधनभूतानर्थाननुगुणयन्ननुकूलयन् । अर्थकामयोरपि हेतुभूत इत्यर्थः। तथा योगिनां विमुक्तयेऽपवर्गाय परिणमन्संपद्यमानो विनयः सौशील्यं केन हेतुना सतां प्रियो नास्तु। संभावनायां लोट् । सर्वथाविनय एव चतुर्वर्गसाधनमित्यर्थः। अतस्त्वया नास्मत्स्वामिशराशैर्ये कार्यमिति तात्पर्यम् ॥ अथवा किं भवादृशेष्वन्यसंभावनया यतो भ्रान्तिरपि संभाव्यत इति मृदूक्तिमवलम्ब्याह
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
ति ष्ठ तां सि पु ण्य मा
न्स म्प दो ऽनु गु न्सु खै षि णाम्
यो गि नां रि न्वि मु क्त ये
के ना स्तु वि यः तां प्रि यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.