विस्मयः क इव वा जयश्रिया
नैव मुक्तिरपि ते दवीयसी ।
ईप्सितस्य न भवेदुपाश्रयः
कस्य निर्जितरजस्तमोगुणः ॥

सारांश AI रज और तम गुणों को जीतने वाले आपके लिए विजय या मोक्ष कुछ भी दुर्लभ नहीं है; आपके समस्त मनोरथ सहज ही सिद्ध होने योग्य हैं।
घण्टापथव्याख्या (मल्लिनाथः) विस्मय इति ॥ किंच । जयश्रिया हेतुना । प्राप्तयापीति शेषः । क इव वा विस्मयः किमाश्चर्यम् । न कश्चिदित्यर्थः । विस्मयोऽद्भुतमाश्चर्यं चित्रम् इत्यमरः (अमरकोशः १.७.२० ) । अतो मुक्तिरपि ते तव दवीयसी दूरतरा दुर्लभा न भवत्येव स्थूलदूर- (अष्टाध्यायी ६.४.१५६ ) इत्यादिना यणादिपरलोपः पूर्वगुणश्च । तथाहि निर्जितौ रजस्तमसी एव गुणौ येन स कस्येप्सितस्य वाञ्छितस्योपाश्रय आस्पदं न भवेदित्यर्थः ॥ अथागमनप्रयोजनमुपालम्भमुखेनाह
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
वि स्म यः वा श्रि या
नै मु क्ति पि ते वी सी
प्सि स्य वे दु पा श्र यः
स्य नि र्जि स्त मो गु णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.