दीपितस्त्वमनुभावसम्पदा
गौरवेण लघयन्महीभृतः ।
राजसे मुनिरपीह कारय-
न्नाधिपत्यमिव शातमन्यवम् ॥

सारांश AI अपने प्रभाव से पर्वतों को लघु करते हुए आप मुनि वेश में भी इंद्र के समान ऐश्वर्यशाली प्रतीत हो रहे हैं।
घण्टापथव्याख्या (मल्लिनाथः) दीपित इति ॥ मुनिरपि । ऐश्वर्यरहितोऽपीत्यर्थः । अनुभावसंपदा प्रभावातिशयेन दीपितः प्रकाशितः । अनुभावः प्रभावे च इत्यमरः (अमरकोशः ३.३.२२० ) । गौरवेण महत्तया महीभृतो राज्ञो लघयंल्लघूकुर्वन् । त्वमिहाद्रौ । शतमन्योरिदं शातमन्यवमैन्द्रम् । तस्येदम् (अष्टाध्यायी ४.३.१२० ) इत्यण्प्रत्ययः। शतमन्युर्दिवस्पतिः इत्यमरः (अमरकोशः १.१.५२ ) । अधिपतेः कर्माधिपत्यं त्रैलोक्यरक्षाधिकारम् । ब्राह्मणादित्वात्ष्यञ्प्रत्ययः । कारयन्निव । इन्द्रेणेति शेषः । राजसे तस्याप्युपजीव्य इति प्रतीयसे । स्वमहिम्नेत्यर्थः ।
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
दी पि स्त्व नु भा म्प दा
गौ वे न्म ही भृ तः
रा से मु नि पी का
न्ना धि त्य मि शा न्य वम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.