Loading data... On slow networks this could take a few minutes.
100%

शान्तता विनययोगि मानसं
भूरिधाम विमलं तपः श्रुतम् ।
प्राह ते नु सदृशी दिवौकसा-
मन्ववायमवदातमाकृतिः ॥

सारांश AI आपकी शांति, विनम्रता, तेज और पवित्र तप आपके देवताओं जैसे महान और निष्कलंक वंश का परिचय दे रहे हैं।
घण्टापथव्याख्या (मल्लिनाथः) शान्ततेति । शान्तता बहिरनौद्धत्यं ते तव विनययोग्यनौद्धत्ययुक्तं मानसं कर्म प्राह नु ब्रूते खलु । तथा भूरि बहु धाम तेजो यस्मिंस्तत्तपः कर्तृ विमलं संप्रदायशुद्धं श्रुतं प्राह । किं च । द्यौर्दिवं वौको येषां तेषां दिवौकसां देवानाम् । पृषोदरादित्वात्साधुः। दिवं स्वर्गेऽन्तरिक्षे च इति विश्वः । सदृशी तुल्याकृतिर्मूर्तिरवदातं शुद्धमन्ववायं वंशं प्राह । वंशोऽन्ववायःसंतानः इत्यमरः । शान्त्यादिभिर्लिङ्गैर्विनयादयोऽनुमीयन्ते। अन्यथा तदसंभवादिति भावः ॥ दीपितस्त्वमनुभावसंपदा गौरवेण लघयन्महीभृतः। राजसे मुनिरपीह कारयन्नाधिपत्यमिव शातमन्यवम्
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
शा न्त ता वि यो गि मा सं
भू रि धा वि लं पः श्रु तम्
प्रा ते नु दृ शी दि वौ सा
न्व वा दा मा कृ तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.