Loading data... On slow networks this could take a few minutes.
100%

स समुद्धरता विचिन्त्य तेन
स्वरुचं कीर्तिमिवोत्तमां दधानः ।
अनुयुक्त इव स्ववार्तमुच्चैः
परिरेभे नु भृशं विलोचनाभ्याम् ॥

सारांश AI अर्जुन ने कीर्ति की तरह चमकते उस बाण को निकाला और बड़े अनुराग से उसे निहारा, मानो वे नेत्रों से उसका आलिंगन कर रहे हों।
घण्टापथव्याख्या (मल्लिनाथः) स इति ॥ उत्तमां स्वरुचं स्वकान्तिं कीर्तिमिव दधान इत्युत्प्रेक्षा । किं च । विचिन्त्य सर्वथा ग्राह्योऽयमिति विमृष्य समुद्धरता सेनार्जुनेनोच्चैः स्ववार्तं स्वपाटवम् । वार्तं पाटवमारोग्यं भव्यं स्वास्थ्यमनामयम् इति यादवः । अनुयुक्तः पृष्ट इव स्थित इत्युत्प्रेक्षा । आदरात्तथा प्रतीयत इत्यर्थः । प्रश्नोऽनुयोगः पृच्छा च इत्यमरः (अमरकोशः १.६.१० ) । स बाणो विलोचनाभ्यां नयनाभ्यां कृत्वा भृशं परिरेभे न्वालिङ्गितः किमित्युत्प्रेक्षा । तेनात्यादरेण दृष्ट इत्यर्थः ॥
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
मु द्ध ता वि चि न्त्य ते
स्व रु चं की र्ति मि वो त्त मां धा नः
नु यु क्त स्व वा र्त मु च्चैः
रि रे भे नु भृ शं वि लो ना भ्याम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.