स्फुटपौरुषमापपात पार्थ-
स्तमथ प्राज्यशरः शरं जिघृक्षुः ।
न तथा कृतवेदिनां करिष्य-
न्प्रियतामेति यथा कृतावदानः ॥

सारांश AI अपना पुरुषार्थ सिद्ध कर अर्जुन बाण लेने पहुँचे; क्योंकि केवल कृतज्ञ होने की अपेक्षा महान कार्य सिद्ध करने वाला वीर अधिक प्रिय होता है।
घण्टापथव्याख्या (मल्लिनाथः) स्फुटेति ॥ अथ वराहपातानन्तरं पार्थोऽर्जुनः प्राज्यशरः प्रभूतशरः । सन्नपीत्यर्थः। प्रभूतं प्रचुरं प्राज्यम् इत्यमरः (अमरकोशः ३.१.६२ ) । स्फुटपौरुषं व्यक्तविक्रमं वराहभेदिनं शरं जिघृक्षुर्ग्रहीतुमिच्छु: । ग्रहे: सन्नन्तादुप्रत्ययः। आपपाताधावति स्म । कृतज्ञतया शरग्रहणम् । न तु लोभादित्यर्थः । नन्वन्येऽप्युपकर्तार एव । किमित्यत्रैवादरस्तस्येत्यत आहकृतवेदिनां कृतज्ञानां कृतावदानः कृतकर्मा । अवदानं कर्म वृत्तम् इत्यमरः (अमरकोशः ३.२.३ ) । यथा प्रियतामेति तथा करिष्यन्नुपकरिष्यन्न प्रियतामेति । कृतकरिष्यमाणयोः कृतं बलीय इति न्यायादिति भावः ॥ अथ युग्मेनाह
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
स्फु पौ रु मा पा पा र्थ
स्त प्रा ज्य रः रं जि घृ क्षुः
था कृ वे दि नां रि ष्य
न्प्रि ता मे ति था कृ ता दा नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.