स गतः क्षितिमुष्णशोणितार्द्रः
खुरदंष्ट्राग्रनिपातदारिताश्मा ।
असुभिः क्षणमीक्षितेन्द्रसूनि-
र्विहितामर्षगुरुध्वनिर्निरासे ॥

सारांश AI रक्त से लथपथ और पत्थरों को चीरता हुआ वह वराह भीषण गर्जना के साथ अर्जुन को देखते हुए पृथ्वी पर गिर पड़ा।
घण्टापथव्याख्या (मल्लिनाथः) स इति ॥ क्षितिं गतः क्षितौ पतित उष्णेन प्रत्यग्रत्वाच्छोणितेनार्द्र: प्लुतः खुराणां दंष्ट्रयोश्चाग्राणां निपातेनाघातेन दारिताश्मा पाटितपाषाणः।किंच।क्षणमीक्षितेन्द्रसूनुः। स्वार्थविघतरोषादिति भावः । अत एव विहितः कृतोऽमर्षगुरुः क्रोधोद्धत्तो ध्वनिः क्रन्दितं येन स तथोक्तः स वराहोऽसुभिः प्राणैर्निरासे निरस्तः । त्यक्त इत्यर्थः । अस्यतेः कर्मणि लिट् । इयं च स्वभावोक्तिः ।
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
तः क्षि ति मु ष्ण शो णि ता र्द्रः
खु दं ष्ट्रा ग्र नि पा दा रि ता श्मा
सु भिः क्ष मी क्षि ते न्द्र सू नि
र्वि हि ता र्ष गु रु ध्व नि र्नि रा से
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.