अथ दीर्घतमं तमः प्रवेक्ष्यन्सहसा रुग्ण्रयः स सम्भ्रमेण । निपतन्तमिवोष्णरश्मिमुर्व्यां वलयीभूततरुं धरां च मेने ॥
अथ दीर्घतमं तमः प्रवेक्ष्यन्सहसा रुग्ण्रयः स सम्भ्रमेण । निपतन्तमिवोष्णरश्मिमुर्व्यां वलयीभूततरुं धरां च मेने ॥
सारांश
AI
प्राण त्यागते समय घायल वराह को ऐसा लगा मानो सूर्य पृथ्वी पर गिर रहा हो और दिशाएं मंडल बनकर घूम रही हों।
घण्टापथव्याख्या (मल्लिनाथः)
अथेति ॥अथ स वराहो दीर्घतमं तमो दीर्घनिद्रां प्रवेश्यन्। मरिष्यन्नित्यर्थः। सहसा झटिति रुग्णरयो भग्नवेगः संभ्रमेण भ्रान्त्या ।
संभ्रमो भ्रान्तिहावयोःइति विश्वः। उष्णरश्मिमुर्व्यां| भूमौ निपतन्तमिव मेने । धरां च वलयीभूता मण्डलीभूतास्तरवो यस्यास्तां तथा मेने । तथा बभ्रामेत्यर्थः । स्वभावोक्तिरलंकारः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.