परमास्त्रपरिग्रहोरुतेजः
स्फुरदुल्काकृति विक्षिपन्वनेषु ।
स जवेन पतन्परःशतानां
पततां व्रात इवारवं वितेने ॥

सारांश AI अस्त्र के तेज से प्रज्वलित वह बाण गिरती उल्का की तरह चमक बिखेरते हुए और सैकड़ों गिरते पक्षियों के शोर के समान ध्वनि करता हुआ वेग से गिरा।
घण्टापथव्याख्या (मल्लिनाथः) परमेति ॥ परमात्रपरिग्रहेण दिव्यास्त्राधिष्ठानेनोरु महदत एव स्फुरदुल्काकृति । उल्कावद्दीर्घायमाणमित्यर्थः। तेजो वनेषु विक्षिपन्विकिरन्सन् । जवेन पतन्धावन्स बाणः। शतात्परे पर:शतास्तेषाम् । शताधिकसंख्यकानामित्यर्थः । परःशताद्यास्ते येषां परा संख्या शतादिकात् इत्यमरः (अमरकोशः ३.१.६३ ) पञ्चमी- (अष्टाध्यायी २.३.४२ ) इति योगविभागात्समासः। राजदन्तादिषु परम् (अष्टाध्यायी २.२.३१ ) इत्युपसर्जनस्य शतशब्दस्य परनिपातः। पारस्करादित्वात्सुडागमः। पततां पतत्रिणाम् । पतत्पत्ररथाण्डजाः' इत्यमरः । व्रातः समूह इवारवं वितेने विस्तारयामास ॥
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
मा स्त्र रि ग्र हो रु ते जः
स्फु दु ल्का कृ ति वि क्षि न्व ने षु
वे न्प रः ता नां
तां व्रा वा वं वि ते ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.