अपयन्धनुषः शिवान्तिकस्थै-
र्विवरेसद्भिरभिख्यया जिहानः ।
युगपद्ददृशे विशन्वराहं
तदुपोढैश्च नभश्चरैः पृषत्कः ॥

अन्वयः AI धनुषः अपयन्, शिव-अन्तिक-स्थैः विवर-सद्भिः (नभश्चरैः) अभिख्यया जिहानः पृषत्कः, वराहम् विशन् (सन्) तत्-उपोढैः च नभश्चरैः युगपत् ददृशे।
English Summary AI The arrow, as it left the bow, was seen simultaneously by the sky-dwellers standing near Shiva and by those in the clouds, who were surpassed by its splendor. It was also seen by the sky-dwellers brought near by it, just as it was entering the boar.
सारांश AI धनुष से निकलते ही वह तेजस्वी बाण आकाश में स्थित देवताओं द्वारा एक साथ वराह के शरीर में प्रवेश करते हुए देखा गया।
घण्टापथव्याख्या (मल्लिनाथः) अपयन्निति ॥ पृषत्को बाणः । पृषत्कबाणविशिखाः इत्यमरः (अमरकोशः २.८.८६ ) । धनुषः पिनाकादपयन्निर्यन् । निर्गच्छन्नित्यर्थः । इणः शतृप्रत्ययः। शिवान्तिकस्थैर्नभश्चरैरभिख्यया शोभया जिहानः । शोभनं गच्छन्नित्यर्थः । ओहाङ् गतौ इति धातोः शानच् । अभिख्या नामशोभयोः इत्यमरः (अमरकोशः ३.३.१६४ ) । विवरे सीदन्तीति विवरेसदस्तैर्विवरेसद्भिरन्तरालवर्तिभिर्नभश्वरैः । सत्सूद्विष— (अष्टाध्यायी ३.२.६१ ) इत्यादिना क्विप् । तत्पुरुषे कृति बहुलम् (अष्टाध्यायी ६.३.१४ ) इत्यलुक् । अथ वराहं विशन्प्रविशंस्तदुपोढैस्तं वराहमुपोढै: प्रत्यासन्नै:। वहेः कर्तरि क्तः। नभश्चरैर्युगपद्ददृशे दृष्ट इति बाणवेगोक्तिः । अत्र क्रमेण निष्क्रमणादिक्रियाविशिष्टस्य बाणस्य शिवान्तिकादिभिन्नदेशस्थनभश्चरकर्तृकदर्शनयौगपद्यासंबन्धेऽपि तत्संबन्धोक्तिमूलातिशयोक्त्या लोकोत्तरवेगप्रतीतेरलंकारेण वस्तुध्वनिः॥
पदच्छेदः AI
अपयन्अपयत् (अप√इ+शतृ, १.१) Going away
धनुषःधनुस् (५.१) from the bow
शिव-अन्तिक-स्थैःशिवअन्तिकस्थ (३.३) by those standing near Shiva
विवर-सद्भिःविवरसद् (३.३) by those sitting in openings (clouds)
अभिख्ययाअभिख्या (३.१) by its splendor
जिहानःजिहान (√हा+शानच्, १.१) being surpassed
युगपत्युगपत् simultaneously
ददृशेददृशे (√दृश् भावकर्मणोः लिट् (आत्मने.) प्र.पु. एक.) was seen
विशन्विशत् (√विश्+शतृ, १.१) entering
वराहम्वराह (२.१) the boar
तत्-उपोढैःतद्उपोढ (३.३) by those brought near by it
and
नभश्चरैःनभश्चर (३.३) by the sky-dwellers
पृषत्कःपृषत्क (१.१) the arrow
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
न्ध नु षः शि वा न्ति स्थै
र्वि रे द्भि भि ख्य या जि हा नः
यु द्द दृ शे वि न्व रा हं
दु पो ढै श्च श्च रैः पृ त्कः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.