स भवस्य भवक्षयैकहेतोः
सितसप्तेश्च विधास्यतोः सहार्थम् ।
रिपुराप पराभवाय मध्यं
प्रकृतिप्रत्यययोरिवानुबन्धः ॥

अन्वयः AI सः रिपुः, सह अर्थम् विधास्यतोः भव-क्षय-एक-हेतोः भवस्य सितसप्तेः च मध्यम्, प्रकृति-प्रत्यययोः अनुबन्धः इव, पराभवाय आप।
English Summary AI That enemy (the boar), for its own destruction, came between Shiva, the sole cause of the end of worldly existence, and Arjuna, the white-horsed, who were both about to accomplish the same purpose, just like an anubandha (indicatory letter) comes between a grammatical root and a suffix.
सारांश AI शिव और अर्जुन दोनों के बाणों के मध्य वह शत्रु उसी प्रकार आ गया जैसे व्याकरण में प्रकृति और प्रत्यय के बीच कोई अनुबंध आ जाता है।
घण्टापथव्याख्या (मल्लिनाथः) स इति ॥ सह संभूयार्थमरिवधरूपप्रयोजनं विधास्यतोः करिष्यतोः । अन्यत्र सहार्थमभिधेयमभिधास्यतोरित्यर्थः । प्रकृतिप्रत्ययौ सहार्थं ब्रूतः इति वचनात् । भवक्षयैकहेतोः संसारोच्छेदनिदानस्य भवस्य शिवस्य सितसप्तेरर्जुनस्य च मध्यं रिपुर्वराहः। यस्मात्प्रत्ययो विधीयते सा प्रकृतिर्धात्वादिः । प्रत्ययः सनादिः । तयोर्मध्यमनुबन्ध इत्संज्ञको वर्णः । यथा भूतं भूतिरित्यादौ ककारः। स इव पराभवाय नाशाय लोपार्थमेवाप । न तु स्थित्यर्थमित्यर्थः ॥
पदच्छेदः AI
सःतद् (१.१) That
भवस्यभव (६.१) of Bhava (Shiva)
भव-क्षय-एक-हेतोःभवक्षयएकहेतु (६.१) who is the sole cause of the destruction of worldly existence
सितसप्तेःसितसप्ति (६.१) of the white-horsed one (Arjuna)
and
विधास्यतोःविधास्यत् (वि√धा+स्य+शतृ, ६.२) of the two who were about to accomplish
सहसह together
अर्थम्अर्थ (२.१) a purpose
रिपुःरिपु (१.१) the enemy (boar)
आपआप (√आप् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) reached
पराभवायपराभव (४.१) for defeat
मध्यम्मध्य (२.१) the middle
प्रकृति-प्रत्यययोःप्रकृतिप्रत्यय (६.२) of a grammatical base and suffix
इवइव like
अनुबन्धःअनुबन्ध (१.१) an indicatory letter
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
स्य क्ष यै हे तोः
सि प्ते श्च वि धा स्य तोः हा र्थम्
रि पु रा रा वा ध्यं
प्र कृ ति प्र त्य यो रि वा नु न्धः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.