ददृशेऽथ सविस्मयं शिवेन
स्थिरपूर्णायतचापमण्डलस्थः ।
रचितस्तिसृणां पुरां विधातुं
वधमात्मेव भयानकः परेषाम् ॥

सारांश AI शिव ने आश्चर्यचकित होकर देखा कि प्रत्यंचा चढ़ाए हुए अर्जुन ऐसे लग रहे थे मानो त्रिपुरासुर का वध करने हेतु स्वयं शिव का ही कोई भयानक रूप खड़ा हो।
घण्टापथव्याख्या (मल्लिनाथः) ददृश इति ॥ अथ बाणसंधानानन्तरं शिवेन स्थिरं निश्चलं पूर्णं च यथा तथायत आकृष्टे चापमण्डले तिष्ठतीति तथोक्तः । चापमण्डलमन्तर्धाय स्थित इत्यर्थः।तिसृणाम्। न तिसृचतसृ (अष्टाध्यायी ६.४.४ ) इति दीर्घप्रतिषेधः । पुराम् । त्रिपुरासुरस्येत्यर्थः । वधं संहारं विधातुं कर्तुं रचितः कल्पितः । स्थानविशेषे स्थापित इति यावत् । आत्मा स्वयमिव परेषां भयानको भयंकरः सोऽर्जुनः सविस्मयं ददृशे दृष्टः । उपमालंकारः ॥ अथ पिनाकिवृत्तान्तमाह
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
दृ शे ऽथ वि स्म यं शि वे
स्थि पू र्णा चा ण्ड स्थः
चि स्ति सृ णां पु रां वि धा तुं
मा त्मे या कः रे षाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.