अनुभाववता गुरु स्थिरत्वा-
दविसंवादि धनुर्धनंजयेन ।
स्वबलव्यसनेऽपि पीड्यमानं
गुणवन्मित्रमिवानतिं प्रपेदे ॥

अन्वयः AI अनुभाववता धनंजयेन (गृहीतम्) स्थिरत्वात् गुरु अविसंवादि धनुः स्वबलव्यसने अपि पीड्यमानम् गुणवत्-मित्रम् इव अनतिम् प्रपेदे।
English Summary AI The heavy, firm, and unfailing bow, when held by the powerful Dhananjaya, attained a state of being unbent (i.e., was bent with difficulty), just like a virtuous friend who, though pained by the misfortune of his own master, does not yield.
सारांश AI अर्जुन ने अपने स्थिर और प्रभावशाली गाण्डीव धनुष को झुकाया, जिसने पीड़ित होने पर भी गुणवान मित्र की भाँति अर्जुन की आज्ञा स्वीकार की।
घण्टापथव्याख्या (मल्लिनाथः) अनुभावेति । गुरु महत्पूज्यं च स्थिरत्वात्सारवत्त्वादविसंवाद्यभङ्गुरम् । अन्यत्र प्रतिष्ठितत्वादसत्यरहितम् । गुणवत्सज्यम् । अन्यत्रौदार्यादिगुणवत् । धनुर्मिन्नमिवानुभाववता निश्चयबुद्धिमता । अनुभावः प्रभावे च सतां च मतिनिश्चये इत्यमरः (अमरकोशः ३.३.२२० ) । धनंजयेन स्वबलव्यसनेऽपि तपसा क्षीणत्वेऽपि । अन्यत्र स्वं धनं तदेव बलं तस्य व्यसने नाशेऽपि । पीड्यमानमाकृष्यमाणमवरुद्ध्यमानं च सन्मित्रमिवानतिं नम्रतामानुकूल्यं च प्रपेदे । अलंकारस्तु पूर्ववत् ॥
पदच्छेदः AI
अनुभाववताअनुभाववत् (३.१) by the powerful
गुरुगुरु (१.१) heavy
स्थिरत्वात्स्थिरत्व (५.१) due to its firmness
अविसंवादिअविसंवादिन् (१.१) unfailing
धनुःधनुस् (१.१) the bow
धनंजयेनधनंजय (३.१) by Dhananjaya
स्वबलव्यसनेस्वबलव्यसन (७.१) in the difficulty of its own strength (i.e., being bent)
अपिअपि even
पीड्यमानम्पीड्यमान (√पीड्+यक्+शानच्, १.१) being pained/bent
गुणवत्-मित्रम्गुणवत्मित्र (१.१) a virtuous friend
इवइव like
अनतिम्अनति (२.१) unyieldingness
प्रपेदेप्रपेदे (प्र√पद् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) attained
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
नु भा ता गु रु स्थि त्वा
वि सं वा दि नु र्ध नं ये
स्व व्य ने ऽपि पी ड्य मा नं
गु न्मि त्र मि वा तिं प्र पे दे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.