इति तेन विचिन्त्य चापनाम
प्रथमं पौरुषचिह्नमाललम्बे ।
उपलब्धगुणः परस्य भेदे
सचिवः शुद्ध इवाददे च बाणः ॥

अन्वयः AI इति तेन विचिन्त्य प्रथमम् पौरुष-चिह्नम् चाप-नाम आललम्बे। च परस्य भेदे उपलब्धगुणः शुद्धः सचिवः इव बाणः आददे।
English Summary AI Having thought thus, he (Arjuna) took up the foremost sign of manliness, namely his bow. And he took up an arrow, like a loyal minister whose virtues have been ascertained, for the destruction of the enemy.
सारांश AI ऐसा विचार कर अर्जुन ने पौरुष के प्रतीक धनुष को उठाया और शत्रु-भेदन हेतु एक श्रेष्ठ बाण लिया, जैसे राजा किसी शुद्धहृदय मंत्री का सहयोग लेता है।
घण्टापथव्याख्या (मल्लिनाथः) इतीति ॥ तेनार्जुनेनेतीत्थं विचिन्त्य वितर्क्य चापनाम चापाख्यं प्रथमं पौरुषचिह्नम् । तस्य मुख्यायुधत्वादिति भावः। आललम्बे गृहीतम् । कर्मणि लिट् । अथ परस्य शत्रोर्मेंदे विदारण उपजापे चोपलब्धगुणो ज्ञातशक्तिः। बाणस्तु प्राप्तमौर्वीकश्चेति शेषः। शुद्धो ऋजुर्दिग्धत्वादिदोषरहितो वा । न कर्णभेदैर्नो दिग्धैर्नाग्निज्वलिततेजसै: इति निषेधात् । अन्यत्रोपधाविशुद्धः । बाणश्च सचिव इवाददे जगृहे । अत्र बाणसचिवयोः शब्दमात्रसाधार्म्याच्छेषालंकारः प्रकृताप्रकृतविषय इति सर्वस्वकारः । उपमैवेति केचित् ॥
पदच्छेदः AI
इतिइति Thus
तेनतद् (३.१) by him
विचिन्त्यविचिन्त्य (वि√चिन्त्+ल्यप्) having thought
चाप-नामचापनामन् (२.१) that which is named bow
प्रथमम्प्रथम (२.१) the foremost
पौरुष-चिह्नम्पौरुषचिह्न (२.१) sign of manliness
आललम्बेआललम्बे (आ√लम्ब् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) he took up
उपलब्धगुणःउपलब्धगुण (१.१) whose virtues have been ascertained
परस्यपर (६.१) of the enemy
भेदेभेद (७.१) in the destruction
सचिवःसचिव (१.१) a minister
शुद्धःशुद्ध (१.१) loyal
इवइव like
आददेआददे (आ√दा कर्तरि लिट् (आत्मने.) प्र.पु. एक.) he took up
and
बाणःबाण (१.१) an arrow
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
ति ते वि चि न्त्य चा ना
प्र मं पौ रु चि ह्न मा म्बे
ब्ध गु णः स्य भे दे
चि वः शु द्ध वा दे बा णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.