कुरु तात तपांस्यमार्गदायी विजयायेत्यलमन्वशान्मुनिर्माम् । बलिनश्च वधाद् ऋतेऽस्य शक्यं व्रसंरक्षणमन्यथा न कर्तुम् ॥

अन्वयः AI 'तात, विजयाय तपांसि कुरु' इति अमार्गदायी मुनिः माम् अलम् अन्वशात्। च अस्य बलिनः वधात् ऋते अन्यथा व्रत-संरक्षणम् कर्तुम् न शक्यम्।
English Summary AI 'The sage (Vyasa), who never shows the wrong path, instructed me greatly, saying, "Dear one, perform austerities for victory." And without killing this powerful creature, it is not possible to protect my vow otherwise.'
सारांश AI व्यास मुनि ने मुझे तपस्या और विजय का उपदेश दिया था। इस बलशाली जीव के वध के बिना तपोवन की रक्षा संभव नहीं है।
घण्टापथव्याख्या (मल्लिनाथः) कुर्विति ॥ हे तात वत्स, मार्गदायी न भवतीत्यमार्गदायी । रन्ध्रान्वेषिणां प्रवेशमयच्छन्नित्यर्थः । कुतः। जयार्थित्वादित्याह-विजयाय तपांसि कुर्विति मुनिर्व्यासो मामलं भृशमन्वशादनुशिष्टवान् । अनुशासेर्लङ्। ननु मुनिर्वा कथमधर्ममन्वशात्तत्राहबलिन इति । अस्य मृगस्य बलिनः प्रबलस्य वधादृते वधं विना।अन्यारादितरर्त- (अष्टाध्यायी २.३.२९ ) इत्यादिना पञ्चमी । अन्यथोपायान्तरेण व्रतसंरक्षणं तपोरक्षणं कर्तुं न शक्यम् । हिंसापि दुष्टनिग्रहात्मिका नाधर्म इत्यर्थः ॥
पदच्छेदः AI
कुरुकुरु (√कृ कर्तरि लोट् (परस्मै.) म.पु. एक.) Perform
ताततात (८.१) O dear one
तपांसितपस् (२.३) austerities
अमार्गदायीअमार्गदायिन् (१.१) one who does not show the wrong path
विजयायविजय (४.१) for victory
इतिइति thus
अलम्अलम् greatly
अन्वशात्अन्वशात् (अनु√शास् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) instructed
मुनिःमुनि (१.१) the sage (Vyasa)
माम्अस्मद् (२.१) me
बलिनःबलिन् (६.१) of the powerful one
And
वधात्वध (५.१) from the killing
ऋतेऋते without
अस्यइदम् (६.१) of this
शक्यम्शक्य (१.१) is possible
व्रत-संरक्षणम्व्रतसंरक्षण (१.१) the protection of the vow
अन्यथाअन्यथा otherwise
not
कर्तुम्कर्तुम् (√कृ+तुमुन्) to do
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.