बहुशः कृतसत्कृतेर्विधातुं
प्रियमिच्छन्नथवा सुयोधनस्य ।
क्षुभितं वनगोचराभियोगा-
द्गणमाशिश्रियदाकुलं तिरश्चाम् ॥

अन्वयः AI अथवा बहुशः कृतसत्कृतेः सुयोधनस्य प्रियम् विधातुम् इच्छन्, वनगोचर-अभियोगात् क्षुभितम् आकुलम् तिरश्चाम् गणम् आशिश्रियत्।
English Summary AI 'Or, wishing to do a favor for Suyodhana, who has honored him many times, has he (a disguised agent) taken refuge in a disturbed and agitated herd of animals, having been agitated himself by an attack from forest-dwellers?'
सारांश AI या फिर दुर्योधन का प्रिय करने की इच्छा से यह पशुओं के समूह को क्षुब्ध करता हुआ मुझ पर आक्रमण करने आया है।
घण्टापथव्याख्या (मल्लिनाथः) बहुश इति ॥ अथवा बहुशः कृता सत्कृतिः सत्कारो येन तस्य दुर्योधनस्य प्रियं मद्वधरूपं प्रतिप्रियं विधातुं कर्तुमिच्छन् । यः कश्चिदिति शेषः । वनं गोचरः स्थानं येषां तेषां वनगोचराणामभियोगादवरोधात् । अभियोगोऽवरोधः स्यात् इति हलायुधः । क्षुभितमुद्विग्नमाकुलं चलं तिरश्चां मृगादिपशूनां गणमाशिश्रियद्वराहरूपेण प्राविक्षत्। णिश्रिद्रुस्नुभ्यः कर्तरि चङ्चङि (अष्टाध्यायी ६.१.११ ) इति द्विर्भावः ॥ वितर्कान्तरमाह
पदच्छेदः AI
बहुशःबहुशस् repeatedly
कृतसत्कृतेःकृतसत्कृति (६.१) of him who has been honored
विधातुम्विधातुम् (वि√धा+तुमुन्) to do
प्रियम्प्रिय (२.१) a favor
इच्छन्इच्छत् (√इष्+शतृ, १.१) wishing
अथवाअथवा Or
सुयोधनस्यसुयोधन (६.१) of Suyodhana
क्षुभितम्क्षुभित (√क्षुभ्+क्त, २.१) agitated
वनगोचर-अभियोगात्वनगोचरअभियोग (५.१) from an attack by forest-dwellers
गणम्गण (२.१) a herd
आशिश्रियत्आशिश्रियत् (आ√श्रि कर्तरि लुङ् (परस्मै.) प्र.पु. एक.) he took refuge in
आकुलम्आकुल (२.१) disturbed
तिरश्चाम्तिरश्च् (६.३) of animals
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
हु शः कृ त्कृ ते र्वि धा तुं
प्रि मि च्छ न्न वा सु यो स्य
क्षु भि तं गो रा भि यो गा
द्ग मा शि श्रि दा कु लं ति श्चाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.