तपसा निपीडितकृशस्य
विरहितसहायसम्पदः ।
सत्त्वविहितमतुलं भुजयो-
र्बलमस्य पश्यत मृधेऽधिकुप्यतः ॥

अन्वयः AI तपसा निपीडितकृशस्य, विरहितसहायसम्पदः, मृधे अधिकुप्यतः अस्य भुजयोः सत्त्वविहितम् अतुलम् बलम् पश्यत।
English Summary AI "Behold the unparalleled strength of his arms, born of inner fortitude, as he becomes enraged in battle—he who is emaciated by penance and devoid of the support of companions and wealth."
सारांश AI तपस्या से क्षीण और सहायकों से रहित होने पर भी, युद्ध में क्रोधित होने पर उसकी भुजाओं के अतुलनीय बल को तुम स्वयं देखना।
घण्टापथव्याख्या (मल्लिनाथः) तपसेति ॥ तपसा नितरां पीडितोऽत एव कृशस्तस्य निपीडितकृशस्य । पूर्वकाल- (अष्टाध्यायी २.१.४९ ) इत्यादिना समासः। तथा विरहिता सहायसंपद्यस्य तस्यैकाकिनो मृधे रणे। मृधमास्कन्दनं संख्यम् इत्यमरः (अमरकोशः २.८.१०४ ) । अधिकुप्यतोऽधिकं कुप्यतोऽस्य पाण्डवस्य सत्त्वविहितं स्वभावकृतम् । स्वाभाविकमित्यर्थः। सत्त्वोऽस्त्री जन्तुषु क्लीबे व्यवसाये पराक्रमे । आत्मभावे पिशाचादौ द्रव्ये सत्तास्वभावयो: ॥ प्राणे वलेऽन्तःकरणे इति वैजयन्ती । अतुलं निरुपमं भुजयोर्बाह्वोर्बलं शक्तिं पश्यत । बलं शक्तिर्बलं सैन्यम् इति शाश्वतः ॥ अथ त्रिभिरस्य किरातभावं वर्णयति
पदच्छेदः AI
तपसातपस् (३.१) by penance
निपीडितकृशस्यनिपीडितकृश (६.१) of him who is emaciated
विरहितसहायसम्पदःविरहितसहायसम्पद् (६.१) of him who is devoid of companions and wealth
सत्त्वविहितम्सत्त्वविहित (२.१) born of inner fortitude
अतुलम्अतुल (२.१) unparalleled
भुजयोःभुज (६.२) of the two arms
बलम्बल (२.१) strength
अस्यइदम् (६.१) of him
पश्यतपश्यत (√दृश् कर्तरि लोट् (परस्मै.) म.पु. बहु.) behold
मृधेमृध (७.१) in battle
अधिकुप्यतःअधिकुप्यत् (अधि√कुप्+शतृ, ६.१) of him who becomes enraged
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
सा नि पी डि कृ स्य
वि हि हा म्प दः
त्त्व वि हि तु लं भु यो
र्ब स्य श्य मृ धे ऽधि कु प्य तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.