सुरकृत्यमेतदवगम्य
निपुणमिति मूकदानवः ।
हन्तुमभिपतति पाण्डुसुतं
त्वरया तदत्र सह गम्यतां मया ॥

अन्वयः AI मूकदानवः एतत् निपुणम् सुरकृत्यम् इति अवगम्य, पाण्डुसुतम् हन्तुम् त्वरया अभिपतति। तत् अत्र मया सह गम्यताम्।
English Summary AI "The demon Muka, having skillfully understood that this is the work of the gods, is rushing with haste to kill the son of Pandu. Therefore, let us go there together."
सारांश AI देवताओं के इस कार्य को जानकर मूक नामक दानव अर्जुन को मारने के लिए तेजी से आ रहा है, इसलिए तुम सब मेरे साथ चलो।
घण्टापथव्याख्या (मल्लिनाथः) सुरेति॥ मूकदानवो मूकाख्यः कश्चिदसुर एतत्पाण्डवकृत्यं सुरकृत्यमिति निपुणमवगम्य साधु निश्चित्य पाण्डुसुतमर्जुनं हन्तुमभिपतति । तत्तस्मात्कारणादत्रार्जुनाश्रमे विषये । आश्रमं प्रतीत्यर्थः । मया सह त्वरया गम्यताम् । द्रष्टुमिति शेषः ॥
पदच्छेदः AI
सुरकृत्यम्सुरकृत्य (२.१) the work of the gods
एतत्एतद् (२.१) this
अवगम्यअवगम्य (अव√गम्+ल्यप्) having understood
निपुणम्निपुण (२.१) skillfully
इतिइति that
मूकदानवःमूकदानव (१.१) the demon Muka
हन्तुम्हन्तुम् (√हन्+तुमुन्) to kill
अभिपततिअभिपतति (अभि√पत् कर्तरि लट् (परस्मै.) प्र.पु. एक.) is rushing
पाण्डुसुतम्पाण्डुसुत (२.१) the son of Pandu
त्वरयात्वरा (३.१) with haste
तत्तत् therefore
अत्रअत्र there
सहसह with
गम्यताम्गम्यताम् (√गम् भावकर्मणोः लोट् (आत्मने.) प्र.पु. एक.) let it be gone
मयाअस्मद् (३.१) by me
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
सु कृ त्य मे म्य
नि पु मि ति मू दा वः
न्तु भि ति पा ण्डु सु तं
त्व या त्र म्य तां या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.