द्विषतः परासिसिषुरेष
सकलभुवनाभितापिनः ।
क्रान्तकुलिशकरवीर्यबला-
न्मदुपासनं विहितवान्महत्तपः ॥

अन्वयः AI सकलभुवनाभितापिनः, क्रान्तकुलिशकरवीर्यबलान् द्विषतः परासिसिषुः एषः महत् तपः मदुपासनम् विहितवान्।
English Summary AI "Desiring to defeat his enemies, who torment all the worlds and whose strength surpasses the power of Indra (the wielder of the thunderbolt), he (Arjuna) has undertaken a great penance consisting of my worship."
सारांश AI जगत को संतापित करने वाले शत्रुओं को जीतने की इच्छा से, इंद्र के वज्र जैसी शक्ति वाला यह वीर मेरी आराधना हेतु घोर तप कर रहा है।
घण्टापथव्याख्या (मल्लिनाथः) द्विषत इति ॥ एष नरः सकलभुवनान्यभितापयन्त्यभीक्ष्णमिति तथोक्तान् । बहुल माभीक्ष्ण्ये इति णिनिः । क्रान्ते आक्रान्ते कुलिशकरस्येन्द्रस्य वीर्यबले शक्तिसैन्ये ये स्तान्द्विषतः शत्रून्परासिसिषुः परासितुमिच्छुः । अस्यतेः सन्नन्तादुप्रत्ययः । मदुपासनं मदाराधनम् । करणे ल्युट् । महत्तपो विहितवान् । अथास्य मानुषावतारे कारणमाह
पदच्छेदः AI
द्विषतःद्विषत् (२.३) enemies
परासिसिषुःपरासिसिषु (परा√अस्+सन्+उ, १.१) desiring to defeat
एषःएतद् (१.१) this one (Arjuna)
सकलभुवनाभितापिनःसकलभुवनअभितापिन् (२.३) who torment all the worlds
क्रान्तकुलिशकरवीर्यबलान्क्रान्त–कुलिशकरवीर्यबल (२.३) whose strength surpasses the power of Indra
मदुपासनम्ममउपासन (२.१) consisting of my worship
विहितवान्विहितवत् (वि√धा+क्तवतु, १.१) has undertaken
महत्महत् (२.१) great
तपःतपस् (२.१) penance
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
द्वि तः रा सि सि षु रे
भु ना भि ता पि नः
क्रा न्त कु लि वी र्य ला
न्म दु पा नं वि हि वा न्म त्त पः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.