स तदोजसा विजितसार-
ममरदितिजोपसंहितम् ।
विश्वमिदमपिदधाति पुरा
किमिवास्ति यन्न तपसामदुष्करम् ॥

अन्वयः AI सः ओजसा विजितसारम् अमरदितिजोपसंहितम् इदम् विश्वम् तत् पुरा अपिदधाति । तपसाम् अदुष्करम् यत् (अस्ति), तत् किम् इव अस्ति?
English Summary AI "Therefore, with his power, he is about to cover this universe, whose essence is already conquered and which is inhabited by gods and demons. Indeed, what is there that is not achievable through penance?"
सारांश AI वह अपने तेज से देवताओं और असुरों के सार को पराजित कर इस विश्व को आच्छादित कर रहा है; वास्तव में तपस्या के लिए कुछ भी असंभव नहीं है।
घण्टापथव्याख्या (मल्लिनाथः) स इति ॥ स पुमानोजसा विजितसारं निरस्तसत्त्वम् । अमरदितिजोपसंहितं सुरासुरसहितं तदिदं विश्वं पुरापिदधाति । अपिधास्यतीत्यर्थः । शीघ्रमेव हारष्यताति भावः। निकटागामिके पुरा इत्यमरः (अमरकोशः ३.३.२६८ ) । 'यावत्पुरानिपातयोर्लट् (अष्टाध्यायी ३.३.४ ) ' इति भविष्यदर्थे लट् । तथाहि । यत्कर्म तपसामदुष्करं तत्किमिवास्ति । न किंचित्तेन दुष्करमस्तीत्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥ न चैतदन्यफलकं तप इत्याह
पदच्छेदः AI
सःतद् (१.१) he
तत्तत् therefore
ओजसाओजस् (३.१) with his power
विजितसारम्विजित (वि√जि+क्त)सार (२.१) whose essence is conquered
अमरदितिजोपसंहितम्अमरदितिजउपसंहित (उप+सम्√धा+क्त, २.१) inhabited by gods and demons
विश्वम्विश्व (२.१) universe
इदम्इदम् (२.१) this
अपिदधातिअपिदधाति (अपि√धा कर्तरि लट् (परस्मै.) प्र.पु. एक.) is about to cover
पुरापुरा soon
किम्किम् (१.१) what
इवइव indeed
अस्तिअस्ति (√अस् कर्तरि लट् (परस्मै.) प्र.पु. एक.) is there
यत्यद् (१.१) that
not
तपसाम्तपस् (६.३) of penances
अदुष्करम्अदुष्कर (१.१) is unachievable
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
दो सा वि जि सा
दि ति जो सं हि तम्
वि श्व मि पि धा ति पु रा
कि मि वा स्ति न्न सा दु ष्क रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.