Loading data... On slow networks this could take a few minutes.
100%

चलनेऽवनिश्चलति तस्य करणनियमे सदिङ्मुखम् । स्तम्भमनुभवति शान्तमरुद्ग्रहतारकागणयुतं नभस्तलम् ॥

अन्वयः AI तस्य चलने अवनिः चलति । करणनियमे (सति) शान्तमरुत्-ग्रहतारकागणयुतम् सदिङ्मुखम् नभस्तलम् स्तम्भम् अनुभवति ।
English Summary AI "When he moves, the earth moves. When he controls his senses, the entire expanse of the sky—with its directions, stilled winds, planets, and constellations—experiences a state of paralysis."
सारांश AI उसके चलने से पृथ्वी कांपती है और इंद्रियों के संयम करने पर पवन शांत हो जाता है तथा नक्षत्रों एवं ग्रहों सहित संपूर्ण आकाश स्तंभित सा हो जाता है।
घण्टापथव्याख्या (मल्लिनाथः) चलन इति ॥ किं च । तस्य पुंसश्चलनेऽवनिः पृथिवी चलति । तथा करणनियमे समाधिष्विन्द्रियसंयमे सति।करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि इत्यमरः (अमरकोशः ३.३.६१ ) । सदिङ्मुखं दिक्सहितं शान्तैः स्तिमितैर्मरुतां वायूनां ग्रहाणां सूर्यादीनां तारकाणां गणैर्युतं नभस्तलं व्योम स्तम्भं निश्चलतामनुभवतीत्यर्थः । अतो विश्वातिशायिनी तस्य शक्तिरुपलभ्यत इति भावः॥ २४-२५ श्लोकयोर्मध्ये क्वचित्क्षेपकोऽयं दृश्यतेबहुभिश्च बाहुभिरहीनभुजगवलयैर्विराजितम् । चन्दनतरुभिरिवालधुभिः प्रबलायतैर्मलयमेदिनीभृतम् । बहुभिरिति । अहीनां सर्पाणां मध्ये य इनाः श्रेष्ठा भुजगास्त एव वलयानि येषां तैः । सर्पाभरणैरित्यर्थः । बहुभिरनेकैर्बाहुभिः। सहस्रभुजत्वात्तस्येति भावः । विराजितं शोभितं चन्दनतरुभिरनेकैर्मलयमेदिनीभृतमिव स्थितम् । चन्दनतरवोऽप्यहीना महान्तो भुजगास्तेषां वलयो वेष्टनं येषां तैरिति । अलघुभिर्महद्भिःप्रबलाश्च त आयताश्च तैरुभयविशेषणम् । प्रबलदीर्घैरित्यर्थः । अथवा । अमलायतैरमला निर्मलाश्च ते तैः । उपमालंकारः ॥ न चैतदुपेक्ष्यमित्याशयेनाह
पदच्छेदः AI
चलनेचलन (७.१) when he moves
अवनिःअवनि (१.१) the earth
चलतिचलति (√चल् कर्तरि लट् (परस्मै.) प्र.पु. एक.) moves
तस्यतद् (६.१) his
करणनियमेकरणनियम (७.१) when the senses are controlled
सदिङ्मुखम्दिङ्मुख (१.१) with its directions
स्तम्भम्स्तम्भ (२.१) paralysis
अनुभवतिअनुभवति (अनु√भू कर्तरि लट् (परस्मै.) प्र.पु. एक.) experiences
शान्तमरुद्ग्रहतारकागणयुतम्शान्तमरुत्ग्रह–तारकागणयुत (१.१) with stilled winds, planets, and constellations
नभस्तलम्नभस्तल (१.१) the expanse of the sky
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.