स धनुर्महेषुधि बिभर्ति
कवचमसिमुत्तमं जटाः ।
वल्कमजिनमिति चित्रमिदं
मुनिताविरोधि न च नास्य राजते ॥

अन्वयः AI सः धनुः, महेषुधी, कवचम्, उत्तमम् असिम्, जटाः, वल्कम्, अजिनम् (च) बिभर्ति । इदम् मुनिताविरोधि चित्रम् अस्य न राजते इति न च (अस्ति) ।
English Summary AI "He bears a bow, two large quivers, armor, an excellent sword, matted hair, bark garments, and a deerskin. This strange combination, contradictory to the life of a sage, is not that it does not suit him; it shines splendidly."
सारांश AI वह धनुष, बाण, कवच और तलवार धारण किए है, किंतु साथ ही जटा, वल्कल और मृगचर्म भी; मुनि धर्म के विरुद्ध होते हुए भी यह विचित्र वेश उस पर अत्यंत शोभा देता है।
घण्टापथव्याख्या (मल्लिनाथः) स इति ॥ किं च । स पुरुषो महान्ताविषुधी यस्य तन्महेषुधि धनुः कवचं वर्मोत्तममसिं खड्गं जटा वल्कं चीरमजिनं चर्म च बिभर्ति । इत्येवंरूपमिदं विरुद्धवेषधारणं मुनिताविरोधि मुनित्वप्रतिबन्धकं तथाप्यस्य न राजत इति न । किं तु राजत एषेत्यर्थः । चित्रमाश्चर्यम् । संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ इति वामनः ॥
पदच्छेदः AI
सःतद् (१.१) he
धनुःधनुस् (२.१) a bow
महेषुधीमहेषुधि (२.२) two large quivers
बिभर्तिबिभर्ति (√भृ कर्तरि लट् (परस्मै.) प्र.पु. एक.) bears
कवचम्कवच (२.१) armor
असिम्असि (२.१) a sword
उत्तमम्उत्तम (२.१) excellent
जटाःजटा (२.३) matted hair
वल्कम्वल्क (२.१) bark garments
अजिनम्अजिन (२.१) a deerskin
इतिइति this
चित्रम्चित्र (१.१) strange combination
इदम्इदम् (१.१) this
मुनिताविरोधिमुनिताविरोधिन् (१.१) contradictory to sagehood
not
and
not
अस्यइदम् (६.१) his
राजतेराजते (√राज् कर्तरि लट् (आत्मने.) प्र.पु. एक.) shines
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
नु र्म हे षु धि बि र्ति
सि मु त्त मं टाः
ल्क जि मि ति चि त्र मि दं
मु नि ता वि रो धि ना स्य रा ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.