अथ भूतभव्यभवदीश-
मभिमुखयितुं कृतस्तवाः ।
तत्र महसि ददृशुः पुरुषं
कमनीयविग्रहमयुग्मलोचनम् ॥

अन्वयः AI अथ कृतस्तवाः (ते) भूतभव्यभवत्-ईशम् अभिमुखयितुम्, तत्र महसि कमनीयविग्रहम् अयुग्मलोचनम् पुरुषम् ददृशुः ।
English Summary AI Then, having offered their praises to make the Lord of the past, present, and future favorable, they saw within that great effulgence a person of charming form with an odd number of eyes (three-eyed Shiva).
सारांश AI स्तुति के बाद ऋषियों ने उस दिव्य प्रकाश के पुंज के भीतर अत्यंत सुंदर स्वरूप वाले त्रिनेत्रधारी शिव के दर्शन किए।
घण्टापथव्याख्या (मल्लिनाथः) अथेति ॥ अथ दृगुपघातानन्तरं भूतभव्यभवतां भूतभविष्यद्वर्तमानानामीशं देवमभिमुखयितुमभिमुखीकर्तुं कृतस्तवाः कृतस्तोत्राः सन्तः । न त्वन्यथेति भावः । स्तवः स्तोत्रं स्तुतिर्नुतिः इत्यमरः (अमरकोशः १.६.११ ) । तत्र पूर्वोक्ते महसि तेजसि कमनीयविग्रहं रम्यमूर्तिमयुग्मानि त्रीणि लोचनानि यस्य तं पुरुषं ददृशुः॥ अथ पञ्चभिः पुरुषं विशिनष्टि-ककुद इत्यादिना ॥
पदच्छेदः AI
अथअथ then
भूतभव्यभवत्-ईशम्भूतभव्यभवत्ईश (२.१) the Lord of the past, present, and future
अभिमुखयितुम्अभिमुखयितुम् (√अभिमुख+णिच्+तुमुन्) to make favorable
कृतस्तवाःकृतस्तव (१.३) those who had offered praises
तत्रतत्र there
महसिमहस् (७.१) in the effulgence
ददृशुःददृशुः (√दृश् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) they saw
पुरुषम्पुरुष (२.१) a person
कमनीयविग्रहम्कमनीयविग्रह (२.१) of charming form
अयुग्मलोचनम्अयुग्मलोचन (२.१) with an odd number of eyes
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
भू व्य दी
भि मु यि तुं कृ स्त वाः
त्र सि दृ शुः पु रु षं
नी वि ग्र यु ग्म लो नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.