Loading data... On slow networks this could take a few minutes.
100%

विनयं गुणा इव विवेकमपनयभिदं नया इव । न्यायमवधय इवाशरणाः शरणं ययुः शिवमथो महर्षयः ॥

अन्वयः AI अथो अशरणाः महर्षयः, गुणाः विनयम् इव, नयाः अपनयभिदम् विवेकम् इव, अवधयः न्यायम् इव, शिवम् शरणम् ययुः ।
English Summary AI Then, the great sages, feeling helpless, sought refuge in Shiva, just as virtues seek humility, as policies seek discrimination that destroys wrong conduct, and as rules seek justice.
सारांश AI जैसे सद्गुण विवेक का आश्रय लेते हैं, वैसे ही भयभीत महर्षि रक्षा के लिए भगवान शिव की शरण में पहुँचे।
घण्टापथव्याख्या (मल्लिनाथः) विनयमिति ॥ अथोऽनन्तरमशरणा महर्षयो मुनयो विनयं शिक्षां गुणा औदार्यादय इव।अशिक्षितस्य तदभावादिति भावः। अपनयभिदं दुर्नीतिवारकं विवेकं सदसज्ज्ञानं नया नीतय इत । अविवेकिनो नीत्यभावादिति भावः । नीतिः षाङ्गुण्यप्रयोगः। नीयतेऽनेनेति न्यायो नियामकं प्रमाणं तम् । अवधयः समया इव । अप्रामाणिकस्य समयोल्लङ्घनादिति भावः। शिवं शरणं रक्षितारम् । शरणं गृहरक्षित्रोः इत्यमरः (अमरकोशः ३.३.५९ ) । ययुर्जग्मुः।शरणत्वेन प्रापुरित्यर्थः । अशरणाः शरणमिति चोपमास्वपि यथायोग्यं योज्यम् । उपमालंकारः॥
पदच्छेदः AI
विनयम्विनय (२.१) humility
गुणाःगुण (१.३) virtues
इवइव like
विवेकम्विवेक (२.१) discrimination
अपनयभिदम्अपनयभिद् (२.१) that which destroys wrong conduct
नयाःनय (१.३) policies
इवइव like
न्यायम्न्याय (२.१) justice
अवधयःअवधि (१.३) rules
इवइव like
अशरणाःअशरण (१.३) helpless
शरणम्शरण (२.१) refuge
ययुःययुः (√या कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) sought
शिवम्शिव (२.१) in Shiva
अथोअथो then
महर्षयःमहर्षि (१.३) the great sages
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.