प्रविवेश गामिव कृशस्य
नियमसवनाय गच्छतः ।
तस्य पदविनमितो हिमवा-
न्गुरुतां नयन्ति हि गुणा न संहतिः ॥

अन्वयः AI नियमसवनाय गच्छतः कृशस्य तस्य पदविनमितः हिमवान् गाम् प्रविवेश इव । हि गुणाः गुरुताम् नयन्ति, संहतिः न ।
English Summary AI As the emaciated Arjuna walked for his ritual ablutions, the Himalaya mountain, bent by his footsteps, seemed to sink into the earth. Indeed, it is virtues that confer weight, not physical bulk.
सारांश AI अर्जुन के चरणों के भार से हिमालय झुक गया। वास्तव में महानता गुणों से आती है, केवल शरीर की विशालता से नहीं।
घण्टापथव्याख्या (मल्लिनाथः) प्रविवेशेति ॥ नियमसवनाय नियमस्नानाय कृशस्य तपःकर्षितस्य तथा । सवनं त्वध्वरे स्नाने सोमनिर्दलनेऽपि च इति विश्वः । गच्छतस्तस्यार्जुनस्य पदैः पादन्यासैर्विनमितो हिमवान्गां भुवं प्रविवेशेवेत्युत्प्रेक्षा। ननु कृशंस्य कथमियद्गौरवम्।तत्राहगुणाः सारादयो गुरुतां नयन्ति प्रापयन्ति हि । संहतिः संघातः । मूर्तिरिति यावत्। न नयति । अन्तःसाराद्धि गौरवं भवति, न तु बाह्यात्स्थौल्यात् । तत्र च हेमपिण्डतूलपिण्डावेव निदर्शनमिति भावः ॥
पदच्छेदः AI
प्रविवेशप्रविवेश (प्र√विश् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) entered
गाम्गो (२.१) the earth
इवइव as if
कृशस्यकृश (६.१) of the emaciated one
नियमसवनायनियमसवन (४.१) for his ritual ablutions
गच्छतःगच्छत् (√गम्+शतृ, ६.१) of him who was going
तस्यतद् (६.१) his
पदविनमितःपदविनमित (वि√नम्+क्त, १.१) bent by the footsteps
हिमवान्हिमवत् (१.१) the Himalaya mountain
गुरुताम्गुरुता (२.१) weight/importance
नयन्तिनयन्ति (√नी कर्तरि लट् (परस्मै.) प्र.पु. बहु.) bring
हिहि for
गुणाःगुण (१.३) virtues
not
संहतिःसंहति (१.१) physical bulk
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
प्र वि वे गा मि कृ स्य
नि ना च्छ तः
स्य वि मि तो हि वा
न्गु रु तां न्ति हि गु णा सं तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.