Loading data... On slow networks this could take a few minutes.
100%

अथ वासवस्य वचनेन
रुचिरवदनस्त्रिलोचनम् ।
क्लान्तिरहितमभिराधयितुं
विधिवत्तपांसि विदधे धनंजयः ॥

सारांश AI इंद्र के आदेश पर अर्जुन ने भगवान शिव को प्रसन्न करने के लिए विधिपूर्वक कठिन तपस्या प्रारंभ की।
घण्टापथव्याख्या (मल्लिनाथः) अथेति ॥ अथेन्द्रतिरोधानानन्तरं रुचिरवदन इन्द्रसाक्षात्कारसंतोषात्प्रसन्नमुखो धनंजयोऽर्जुनो वासवस्य वचनेनोपदेशेन त्रिलोचनं शिवं क्लान्तिरहितं यथा तथाभिराधयितुं प्रसादयितुं तपांसि विधिवद्विध्यर्हम् । यथाशास्त्रमित्यर्थः । तदर्हम् (अष्टाध्यायी ५.१.११७ ) इति वतिप्रत्ययः । विदधे चक्रे । अस्मिन्सर्ग उद्गतावृत्तम्-सजमादिमे सलघुकौ च नसजगुरुकैरथोद्गता । अङ्घ्रिगतभनजला गयुताः सजसा जगौ चरणमेकतः पठेत् ॥ इति लक्षणात् ॥
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
वा स्य ने
रु चि स्त्रि लो नम्
क्ला न्ति हि भि रा यि तुं
वि धि त्त पां सि वि धे नं यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.