Loading data... On slow networks this could take a few minutes.
100%

अभिरश्मिमालि विमलस्य
धृतजयधृतेरनाशुषः ।
तस्य भुवि बहुतिथास्तिथयः
प्रतिजग्मुरेकचरणं निषीदतः ॥

सारांश AI सूर्योन्मुख होकर और एक पैर पर खड़े होकर निराहार अर्जुन ने तपस्या में अनेक दिन व्यतीत किए।
घण्टापथव्याख्या (मल्लिनाथः) अभिरश्मीति ॥ अभिरश्मिमाल्यभिसूर्यं सूर्याभिमुखं भुव्येकचरणं निषीदत एकचरणेन तिष्ठतो विमलस्य बाह्यान्तरशुद्धिमतः । धृता जयधृतिर्जयेच्छा येन तस्यानाशुषोऽनश्नतः। उपेयिताननाश्वाननूचानश्व इति निपातः। तृस्यार्जुनस्य बहूनां पूरणा बहुतिथाः। बहुसंख्यका इत्यर्थः।तस्य पूरणे डट् (अष्टाध्यायी ५.२.४८ ) बहुपूगगणसंघस्य तिथुक् (अष्टाध्यायी ५.२.५२ ) इति तिथुगागमः। तिथयो दिनानि प्रतिजग्मुः। अत्र तिथिशब्दः पुंलिङ्गः ।तदाद्यास्तिथयो: द्वयोः इत्यभिधानात् । अन्यथा बहुतिथा इत्यत्र टित्वान्ङीप्स्यात्
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
भि श्मि मा लि वि स्य
धृ धृ ते ना शु षः
स्य भु वि हु ति था स्ति यः
प्र ति ग्मु रे णं नि षी तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.