आतिथेयीमथासाद्य सुतादपचितिं हरिः ।
विश्रम्य विष्टरे नाम व्याजहारेति भारतीम् ॥

अन्वयः AI अथ हरिः सुतात् आतिथेयीम् अपचितिम् आसाद्य, विष्टरे विश्रम्य, नाम इति भारतीं व्याजहार ।
English Summary AI Then Indra, having received hospitable worship from his son and having rested on a seat of grass, spoke the following words.
सारांश AI अपने पुत्र से अतिथि-सत्कार और सम्मान पाकर इंद्र एक आसन पर विश्राम करने के बाद इस प्रकार बोले।
घण्टापथव्याख्या (मल्लिनाथः) आतिथेयीमिति ॥ अथ हरिरिन्द्रः सुतादर्जुनादातिथेयीमतिथिषु साध्वीम् । पथ्यतिथिवसतिस्वपतेर्ढञ् (अष्टाध्यायी ४.४.१०४ ) । अपचितिं पूजामासाद्य प्राप्य। पूजा नमस्यापचितिःइत्यमरः (अमरकोशः २.७.३७ ) । विष्टर आसने । ऋदोरप् इति स्तुपातेरप्प्रत्ययः । वृक्षासनयोर्विष्टरः (अष्टाध्यायी ८.३.९३ ) इति षत्वम् । विश्रम्य नाम विश्रम्य किल । श्रममपनीयेत्यर्थः । इति वक्ष्यमाणप्रकारां भारतीं व्याजहारोक्तवान् । व्याहार उक्तिर्लपितम् इत्यमरः (अमरकोशः १.६.१ ) ॥ अथ तावन्मुनिवदेनं मुमुक्षुं कृत्वाह
पदच्छेदः AI
आतिथेयीम्आतिथेयी (२.१) hospitable
अथअथ then
आसाद्यआसाद्य (आ√सद्+ल्यप्) having received
सुतात्सुत (५.१) from the son
अपचितिम्अपचिति (२.१) worship
हरिःहरि (१.१) Indra
विश्रम्यविश्रम्य (वि√श्रम्+ल्यप्) having rested
विष्टरेविष्टर (७.१) on a seat
नामनाम indeed
व्याजहारव्याजहार (वि+आ√हृ कर्तरि लिट् (परस्मै.) प्र.पु. एक.) spoke
इतिइति thus
भारतीम्भारती (२.१) speech
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ति थे यी था सा द्य
सु ता चि तिं रिः
वि श्र म्य वि ष्ट रे ना
व्या हा रे ति भा तीम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.