त्वया साधु समारम्भि नवे वयसि यत्तपः ।
ह्रियते विषयैः प्रायो वर्षीयानपि मादृशः ॥

अन्वयः AI नवे वयसि त्वया यत् तपः समारम्भि, (तत्) साधु । प्रायः मादृशः वर्षीयान् अपि विषयैः ह्रियते ।
English Summary AI "It is good that you have undertaken this penance in your youth. Usually, even an older person like me is carried away by sensual objects."
सारांश AI इंद्र ने कहा कि तुमने युवावस्था में ही यह श्रेष्ठ तपस्या प्रारंभ की है, जबकि मुझ जैसे वृद्ध भी अक्सर विषयों की ओर आकर्षित हो जाते हैं।
घण्टापथव्याख्या (मल्लिनाथः) त्वयेति ॥ त्वया साधु समारम्भि सम्यगुपक्रान्तम् । रमेः कर्मणि लुङ् । कुतः। यद्यस्मान्नवे वयसि यौवने । तपः । चर्यत इति शेषः । तथा हि । अहमिव दृश्यतेऽसौ मादृशो वर्षीयानतिवृद्धोऽपि । प्रियस्थिर- (अष्टाध्यायी ६.४.१५७ ) इत्यादिना वृद्धशब्दस्य वर्षादेशः । प्रायो विषयैर्ह्रियत आकृष्यते । किमु भवादृशो यवीयानिति भावः ॥ अथैवमनारम्भे तव स्वाकारलाभोऽपि विफलः स्यदित्याशयेनाहश्रेयसीं तव संप्राप्ता गुणसंपदमाकृतिः। सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम्
पदच्छेदः AI
त्वयायुष्मद् (३.१) by you
साधुसाधु well
समारम्भिसमारम्भि (सम्+आ√रभ् भावकर्मणोः लुङ् (आत्मने.) प्र.पु. एक.) has been undertaken
नवेनव (७.१) in young
वयसिवयस् (७.१) age
यत्यद् (१.१) which
तपःतपस् (१.१) penance
ह्रियतेह्रियते (√हृ भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is carried away
विषयैःविषय (३.३) by sensual objects
प्रायःप्रायस् usually
वर्षीयान्वर्षीयस् (१.१) an older person
अपिअपि even
मादृशःमादृश (१.१) one like me
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्व या सा धु मा म्भि
वे सि त्त पः
ह्रि ते वि यैः प्रा यो
र्षी या पि मा दृ शः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.